SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २११ षाऽसंस्पर्शात् स्खलक्षणेनान्वयः क्रियमाणो न विरुध्यते । यदि तर्हि स्वलक्षणेनैवान्वयः कथं सामान्यलक्षणविषयमनुमानम् ? तैदेव हि स्वलक्षणमविक्षितभेदं सामान्यलक्षणमित्युक्तम् 'सामान्येन भेदापरामर्शेन लेक्ष्यतेऽध्यवसीयते' इति कृत्वा । तदुक्तम् "अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् । __ सामान्यविषयं प्रोक्तं लिङ्ग भेदाप्रतिष्ठितः" ॥ [ ___] इति । ५ तेन साहचर्यमपि लिङ्ग-शब्दयोः स्वलक्षणेनैव कथ्यते । न चाप्यदर्शनमात्रेणास्माभिर्विपक्षे लिङ्गस्थाभावोऽवसीयते, किं तर्हि ? अनुपलम्भविशेषादेव । ___ यञ्चोक्तम्-'शाबलेय'-इत्यादि, तत्रेदं भवान् वक्तुमर्हति-'शाबलेयाद् बाहुलेयाऽश्वयोस्तुल्येऽपि भेदे किमिति तुरङ्गमपरिहारेण गोत्वं शाबलेयादौ वर्तते नाश्वे' इति ? स्यादेतत् किमत्र वक्तव्यम् ? गोत्वस्याभिव्यक्तौ शाब-१० लेयादिरेव समर्थो नाश्वादिः; अतस्तत्रैव तद् वर्तते नान्यत्र । न चायं पर्यनुयोगो युक्तः 'कस्मात् तस्याभिव्यक्तौ शाबलेयादिरेव समर्थः' ? यतो वस्तुस्वभावप्रतिनियमोऽयम् ; न हि वस्तूनां स्वभावाः पर्यनुयोगमर्हन्ति तेषां स्वहेतुपरम्पराकृतत्वात् स्वभावभेदप्रतिनियमस्येति । नन्वेवं या शाबलेयादिरेव गोत्वाभिव्यक्तौ समर्थस्तथा सत्यपि भेदे सामान्यमन्तरेणापि तुल्यप्रत्यवमर्शोत्पादने शाबलेयादिरेव शक्तो न तुरङ्गम इत्यस्मत्पक्षो न विरुध्यत एव । तेन "तादृक् प्रत्यवमर्शश्च विद्यते यत्र वस्तुनि । तीभावेऽपि गोजातेरगोपोहः प्रवर्तते" ॥ [ तत्त्वसं० का० १०६० ] यञ्चोक्तम्-'इन्द्रियैः' इत्यादि, तदसिद्धम् ; तथाहि-खंलक्षणात्मा तावदपोह इन्द्रियैरवगम्यत एव, यश्चार्थप्रतिबिम्बात्माऽपोहः स परमार्थतो बुद्धिखभावत्वात् स्वसंवेदनप्रत्यक्षत एव सिद्धः, १-णो विरु-भां० मा० विना। २ तहि वा. बा.। ३ तदेवं का।। "अविवक्षितभेदं च तदेव परिकीर्तितम् । सामान्यलक्षणत्वेन नानिष्टेरपरं पुनः" ॥ तत्त्वसं० का० १०५७ पृ०३३० । ४-वक्षितं भे-आ० हा०वि०।-वक्षितमविवक्षितभे-वा.बा। "अविवक्षितभेदस्य स्खलक्षणस्यैव सामान्यलक्षणत्वात्"-शास्त्रवा० स्याद्वादक० पृ. ४०३ प्र.पं० १३। ५ "लक्ष्यते व्यवसीयते"-तत्त्वसं० पजि० पृ. ३३० पं० ११। ६ “यदुक्तं धर्मकीर्तिनाअतद्रूपपरावृत्तवस्तुमात्रप्रवेदनात् । सामान्यविषयं प्रोक्तं लिग भेदाप्रतिष्ठितेः" ॥ इति अष्टस० पृ. २८ पं० १५। "'भेदाप्रतिष्ठितेः' भेदाप्रतिष्ठितेर्विशेषागोचरत्वात्"-वाचकयशोवि० अष्ट. टी० लि. प्र. पृ. १८ द्वि. पं०१० भाण्डा०॥ "अतद्रूपपरावृत्तवस्तुमात्रसमाश्रयात्"-तत्त्वसं० पजि. पृ० ३३० पं० १३ । ७ लिङ्गमेदाप्रतिष्ठतेरिति आ०। ८-ष्ठितैरिति कां०। ९ पृ० १९० पं० १४ । १. "शबलापयतो भेदे बाहुलेयाऽश्वयोः समे । तुरङ्गपरिहारेण गोत्वं किं तत्र वर्तते" ॥ तत्त्वसं० का० १०५८ पृ० ३३० । ११-दे पि कि-आ० हा०। १२ किमपि वा० बा० विना । १३ "न च पर्यनुयोगोऽस्ति वस्तुशतः कदाचन ॥ “वहिर्दहति नाऽऽकाशं कोऽत्र पर्यनुयुज्यताम्"। श्लो० वा. आकृ० श्लो० २८-२९ पृ० ५५२ । १४ "तस्य व्यक्तौ समर्थात्मा स एवेति यदीष्यते । तुल्यप्रत्यवमर्शेऽपि स शक्तो न तुरङ्गमः" ॥ तत्त्वसं० का० १०५९ पृ० ३३० । १५-मामेदेऽपि भां. मा. विना। १६ पृ० १९. पं० १९ तथा ३५। १७ “अगोभिन्नं च यद् वस्तु तदक्षैर्व्यवसीयते । प्रतिबिम्बं तदध्यस्तं खसंवित्त्याऽवगम्यते" ॥ "इदं दृष्टा च लोकेन शन्दस्तत्र प्रयुज्यते । संबन्धानुभवोऽप्यस्य व्यक्तं तेनोपपद्यते"॥ तत्त्वसं० का० १०६१-१०६२ पृ०३३१॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy