SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०२ प्रथमे काण्डे[ स्वपक्षाक्षेपेषु प्रतिविधातव्येषु पूर्वम् अपोहवादिकृतं स्वमतस्पष्टीकरणम् ] अत्र सौगताः प्रतिविदधति-द्विविधोऽस्माकमपोहः पर्युदासलक्षणः प्रेसह्यप्रतिषेधलक्षणश्च । पर्युदासलक्षणोऽपि द्विविधः-बुद्धिप्रतिभासोऽर्थेष्वनुगतैकरूपत्वेनाध्यवसितो बुद्ध्यात्मा, विजातीयव्यावृत्तवलक्षणार्थात्मकश्च । तंत्र यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यलक्षणमेकमर्थ ५ ज्वरादिशमनं कार्यमुपजनयन्ति तथा शाबलेयादयोऽप्यर्थाः सत्यपि भेदे प्रकृतकाकारपरामर्शहेतवो भविष्यन्त्यन्तरेणापि वस्तुभूतं सामान्यम् । तदनुभवबलेन यदुत्पन्नं विकल्पज्ञानं तत्र यदाकारतयाँऽर्था(र्थ)प्रतिबिम्बकं ज्ञानादभिन्नमाभाति तत्र 'अन्यापोहः' इति व्यपदेशः। न चासावर्थाभासो ज्ञानतादात्म्येन व्यवस्थितः सन् बाह्यार्थाभावेऽपि तस्य तत्र प्रतिभासनाद् बाह्यकृतः। न चापोहव्यपदेशस्तत्र निर्निमित्तः, मुख्य-गौणभेदभिन्नस्य निमित्तस्य सद्भावात् । तथाहि१० विकल्पान्तरारोपितप्रतिभासान्तरोद्भावन(प्रतिभासान्तराद् भेदेन) स्वयं प्रतिभासनात् मुख्यस्तत्र तद्यपदेशः 'अपोह्यत इत्यपोहः अन्यस्मादपोहः अन्यापोहः' इति व्युत्पत्तेः । उपचारात् तु त्रिभिः कारणैस्तत्र तद्यपदेशः-(१)कारणे कार्यधर्मारोपाद् वा अन्यव्यावृत्तवस्तुप्राप्तिहेतुतया, (२) कार्ये वा कारणधर्मोपचारात् अन्यविविक्तवस्तुद्वारायाततया, (३) विजातीयापोढपदार्थन सहैक्येन भ्रान्तः प्रतिपत्तृभिरध्यवसितत्वाञ्चेति । अर्थस्तु विजातीयव्यावृत्तत्वाद् मुख्यतस्तद्यपदेशभाक् । १५ प्रसज्यप्रतिषेधलक्षणस्त्वपोहः "प्रसज्यप्रतिषेधस्तु गौरगौन भवत्ययम् । इति "विस्पष्ट एवायमन्यापोहोऽवगम्यते" ॥ [ तत्त्वसं० का० १०१० ] १ "तथाहि-द्विविधोऽपोहः पर्युदास-निषेधतः। द्विविधः पयुदासोऽपि वुद्धयात्माऽर्थात्मभेदतः"॥ तत्त्वसं० का० १००४ पृ० ३१६ । २ प्रसज्य-कां०। ३ व्यावृत्त्यस्व-वा० बा० विना। ४-स्वलक्षणमोत्मकश्च वा० वा० । “विजातीयव्यावृत्तमर्थस्खलक्षणमित्यर्थः"-तत्त्वसं० पञ्जि. पृ०३१७ पं० ४ । “विजातीयव्यावृत्तसर्वस्खलक्षणम्"-स्याद्वादर० पृ० ३४९ द्वि. पं० १ । शास्त्रवा० स्याद्वादक० पृ० ४०१ द्वि० पं०९। ५ “एकप्रत्यवमर्शस्य य उक्ता हेतवः पुरा । अभयादिसमा अर्थाः प्रकृत्यैवान्यमेदिनः॥ "तानुपाश्रित्य यद् ज्ञाने भात्यर्थप्रतिबिम्बकम् । कल्पकेऽर्थात्मताऽभावेऽप्यर्था इत्येव निश्चितम्" ॥ तत्त्वसं० का० १००५-१००६ पृ० ३१७ । ६ "प्रकृत्यैकाकारप्रत्यवमर्शस्य हेतवः"-तत्त्वसं० पजि० पृ. ३१७ पं० १३ । ७-याऽर्थापत्तिबिंबकं वा. बा० ।-याऽर्थप्रतिबन्धकं भां० मां० ।-याऽर्थाप्रतिबन्धकं हा० वि० । “तत्र यदाकारतयाऽर्थप्रतिबिम्बकमर्थाभासो भाति"-तत्त्वसं० पक्षि० पृ. ३१७ पं० १६। प्रमेयक. पृ० १२८ द्वि० पं०१। स्याद्वादर० पृ. ३४९ द्वि० पं०३ । शास्त्रवा० स्याद्वादक० पृ०४०१ द्वि. पं० १२। ८ न चासामर्थ्याभावो ज्ञानावतदात्म्येनाव्यवस्थितः सन्नाह्यार्थाभावेऽपि तस्य तत्र प्रतिभासनाद्वाह्यकृतः वा० बा० । ९ “प्रतिभासान्तराद् मेदादन्यव्यावृत्तवस्तुनः। प्राप्तिहेतुतयाऽश्लिष्टवस्तुद्वारा गतेरपि ॥ "विजातीयपरावृत्तं तत् फलं यत् स्खलक्षणम् । तस्मिन्नध्यवसायाद्वा तादात्म्येनाऽस्य विप्लुतैः" ॥ "तत्राऽन्यापोह इत्येषा संज्ञोक्ता सनिबन्धना । खलक्षणेऽपि तद्धतावन्यविश्लेषभावतः" ॥ तत्त्वसं० का० १००७-१००८-१००९-पृ० ३१७-३१८ । १०-प्रतिभासान्तरोद्भावनं स्वयं हा०वि० । “विकल्पान्तरारोपितप्रतिभासान्तराद् मेदेन खयं प्रतिभासनाद मुख्यः"-तत्त्वसं० पञ्जि. पृ. ३१७ पं० २७ । स्याद्वादर० पृ. ३४९ द्वि० ५० ५। ११ उपचारस्तु बा०। १२ अन्यन्यवि-आ० का। १३-यापोहपदार्थ-मां० । “विजातीयापोहपदार्थेन"-तत्त्वसं० पजि० पृ० ३१८ पं०६। १४-तत्वास्वेति आ० हा० वि० वा. बा० । १५ अश्वस्तु बा०। १६-सह-मां०। स्याद्वादर. पृ. ३४९ द्वि. पं. ७ । शास्त्रवा० स्याद्वादक० पृ.४०१ द्वि. पं. १३ । १७ विशिष्ट वा० बा० विना। १८ तत्त्वसं० पृ. ३१८ शब्दार्थपरीक्षा । .५" वयापो १५ ०१.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy