SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मोमासा । २०१ "इतश्चायुक्तोऽपोहः विकल्पानुपपत्तेः । तथाहि-योऽयमगोरपोहो गवि स किं गोव्यतिरिक्तः, आहोश्विव्यतिरिक्तः ? यदि व्यतिरिक्तः स किमाश्रितः, अथानाश्रितः? यद्याश्रितस्तदाऽऽश्रितत्वाद् गुणः प्राप्तः, ततश्च-गोशब्देन गुणोऽभिधीयते 'न गौः' इति-गौस्तिष्ठति' 'गौर्गच्छति' इति न सामानाधिकरण्यं प्राप्नोतीति । अथानाश्रितस्तदा केनाथन 'गोरगोपोहः' इति षष्ठी स्यात् ? अथाव्यतिरिक्तस्तदा गौरेवासाविति न किञ्चित् कृतं भवति" [ न्यायवा० पृ० ३३० पं०८-१४ ] ५ ___ "अयंचापोहःप्रतिवस्त्वेकः, अनेको वेति वक्तव्यम् । यद्येकस्तदानेकगोद्रव्यसम्बन्धी गोत्वमेवासौ भवेत् । अथानेकस्ततः पिण्डवदानन्त्यादाख्यानानुपपत्तेरवाच्य एव स्यात्" [न्यायवा० पृ० ३३० पं०१५-१७ ] किच, "इदं तावत् प्रष्टव्यो भवति भवान्-किमपोहो वाच्यः, अथावाच्य इति । वाच्यत्वे विधिरूपेण वाच्यः स्यात्, अन्यव्यावृत्त्या वा? तत्र यदि विधिरूपेण तदा नैकान्तिकः शब्दार्थः 'अन्यापोहः शब्दार्थः' इति । अथान्यव्यावृत्त्येति पक्षस्तदा तस्याप्यन्यव्यवच्छेदस्यापरेणा-१० न्यव्यवच्छेदरूपेणाभिधानम् तस्याप्यपरेणेत्यव्यवस्था स्यात् । अथावाच्यस्तदा 'अन्यशब्दार्थापोहं शब्दः करोति' इति व्याहन्येत" [न्यायवा० पृ० ३३० पं० १८-२२] आचार्यदिग्नागोक्तम्-"सर्वत्राभेदादाश्रयस्यानुच्छेदात् कृत्स्नार्थपरिसमाप्तेश्च यथाक्रमं जातिधर्मा एकत्व-नित्यत्व-प्रत्येकपरिसमाप्तिलक्षणा अपोह एवावतिष्ठन्ते; तस्माद् गुणोत्कर्षादर्थान्तरापोह एव शब्दार्थः साधुः" [ ] इत्येतदाशय कुमारिल उपसह(संहर)नाह- १५ "अपि चैकत्व-नित्यत्व-प्रत्येकसमवायित्वाः (ताः)। निरूपाख्येष्वपोहेषु कुर्वतोऽसूत्रकः पट:"॥ "तस्माद् येष्वेव शब्देषु नञ्योगस्तेषु केवलम् । भवेदन्यनिवृत्त्यंशः स्वात्मैवान्यत्र गम्यते” ॥ [श्लो० वा० अपो० श्लो० १६३-१६४] 'स्वात्मैव' इति स्वरूपमेव विधिलक्षणम् । 'अन्यत्र' इति नना रहिते । तन्नापोहः शब्दार्थ इति २० भट्टोहयोतकरादयः। १ "अगौरपोहो यश्चायं गवि शब्दार्थ उच्यते । स किं गोव्यतिरिक्तो वाऽव्यतिरिक्त उपेयते" ॥ “विभिन्नोऽप्याश्रितो वा स्यादथवा स्यादनाश्रितः । आश्रितत्वे गुणः प्राप्तो न द्रव्यवचनं ततः" ॥ "अतो(s)गौरिति शब्देन गुणमात्राभिधानतः। सामानाधिकरण्यं स्यान गौर्गच्छति तिष्ठति ॥ "अथाऽनाश्रित एवायं यद्यर्थ(षष्टयर्थ)स्तस्य को भवेत् । येनासौ प्रतिषेधाय गौरिति व्यपदिश्यते" ॥ “अथ चाऽव्यतिरिक्तोऽयमन्यापोहस्त्वयेष्यते । गौरेवायमतः प्राप्तः किमुक्तमधिकं ततः"॥ तत्त्वसंका. ९९०-९९१-९९२-९९३-९९४ पृ. ३१४-३१५ । २-युक्तेऽपोह्ये विकल्पा-वा. बा. विना। ३-यते तेनागौरिति-बा०। ४-स्तथा भां० मां० विना । ५ "प्रतिभावमपोहोऽयमेकोऽनेकोऽपि वा भवेत् । यद्यकोऽनेकगोयुक्तो गोत्वमेव भवेदसौ"॥ "अनेकत्वेऽपि चानन्त्यं पिण्डवत् संप्रयुज्यते । तेन भेदवदेवाऽस्य वाच्यता नोपयुज्यते" ॥ तत्त्वसं० का० ९९५-९९६ पृ० ३१५ । ६ “अन्यापोहश्च किं वाच्यः किं वाऽवाच्योऽयमिष्यते । वाच्योऽपि विधिरूपेण यदि वाऽन्यनिषेधतः" ॥ "विध्यात्मनाऽस्य वाच्यत्वे त्याज्यमेकान्तदर्शनम् । सर्वत्राऽन्यनिरासोऽयं शब्दार्थ इति वर्णितम् ॥ “अथाऽपोहव्युदासेन यद्यपोहोऽभिधीयते । तत्र तत्रैवमिच्छायामनवस्था भवेत् ततः" ॥ "अथाऽप्यवाच्य एवायं यद्यपोहस्त्वयेष्यते । तेनाऽन्यापोहकृच्छब्द इति बाध्येत ते वचः" ॥ तत्त्वसं० का० ९९७-९९८-९९९-१००० पृ० ३१५-३१६ । ७ "एतत् सर्वमुझ्योतकरेणोक्तमुपन्यस्तम् तत्राचार्यदिग्नागेनोक्तम्"-तत्त्वसं० पञ्जि. पृ. ३१६ पं० १२ । ८ “योऽपि जातिधर्मातिदेशोऽपोहे कृतः "जातिधर्मव्यवस्थितेः” इति, सोऽयुक्तः"-श्लो० वा. पार्थ० व्या० पृ० ६११ पं० १४ । ९ उपहसन्नाह भां० मा० । “उपसंहरनाह"-तत्त्वसं० पजि० पृ. ३१६ पं० १५ । “उपसंहरति"-श्लो० वा. पार्थ० व्या० पृ०६११५० १५। १०-मवायिनि । वा. बा. विना। ११ तत्त्वसं. का० १००१ पृ. ३१६ । १२ तत्त्वसं० का० १००२ पृ० ३१६ । स० त० २६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy