SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः। १५१ "अभ्यासात् पक्कविज्ञानः कैवल्यं लभते नरः। केवलं काम्ये निषिद्धे च प्रवृत्तिप्रतिषेधतः” ॥ [ ] तदुक्तम् "नित्य-नैमित्तिके कुर्यात् प्रत्यवायजिहासया।। मोक्षार्थी न प्रवर्तेत तत्र काम्य-निषिद्धयोः" ॥ [ ] अत एव विपर्ययज्ञानध्वंसादिक्रमेण विशेषगुणोच्छेदविशिष्टात्मस्वरूपमुक्त्यभ्युपंगमे न तत्त्वज्ञानकार्यत्वादनित्यत्वं वाच्यम्, विशेषगुणोच्छेदस्य प्रध्वंसत्वात् तदुपलक्षितात्मनश्च नित्यत्वादिति; कार्यवस्तुनश्चानित्यत्वम् । न च बुद्ध्यादिविनाशे गुणिनस्तथाभावः, तस्य तत्तादात्म्याभावात् । ___अथ मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न कृतबुद्धयस्तत्र प्रवर्त्तन्त इत्यानन्दरूपात्मस्वरूप एव मोक्षोऽभ्युपगन्तव्यः। यथा तस्य चित्स्वभावता नित्या तथा परमानन्दस्वभावताऽपि । न चात्मनः१० सकाशाञ्चित्खभावत्वमानन्दस्वभावत्वं वाऽन्यत्, अनन्यत्वेन श्रुतौ श्रवणात् “विज्ञानमानन्दं ब्रह्म" [बृहदा० उ० अ० ३, ब्रा० ९, मं० २८ ] इति । तस्य तु परमानन्दस्वभावत्वस्य संसारावस्थायामविद्यासंसर्गादप्रतिपत्तिरात्मनोऽव्यतिरिक्तस्यापि, यथा रज्वादेर्द्रव्यस्य तत्त्वाग्रहणाऽन्यथाग्रहणाभ्यां स्वरूपं न प्रकाशते यदा त्वविद्यानिवृत्तिस्तदा तस्य स्वरूपेण प्रकाशनम्, एवं ब्रह्मणोऽपि तत्त्वाग्रहाऽन्यथाग्रहाभ्यां मेदप्रपञ्चसंसर्गादानन्दादिस्वरूपं न प्रकाशते मुमुक्षुयत्नेन तु यदाऽनाद्यविद्याव्यावृत्ति-१५ स्तदा स्वरूपप्रतिपत्तिः, सैव मोक्षः । अत एवोक्तम्"आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते"। [ ] इति, 'ब्रह्मणः' इति च सुखस्य षष्ठया व्यतिरेकाभिधानेऽपि न भेदस्तन्महत्त्ववत्, संसारावस्थायां त्वप्रतिभासात् तया तस्य व्यतिरेकाभिधानम् । यथा आत्मनो महत्त्वं निजो गुणो न च संसारावस्थायामात्मग्रहणेऽपि प्रतिभाति तद्वन्नित्यं सुखमविद्यासंसर्गात् मुक्तेः पूर्वमात्माऽव्यतिरिक्तं तद्धर्मो वा न प्रतिभाति । २० महत्त्ववत् सर्वेश्वरत्वं सदा प्रबुद्धत्वं सत्यसङ्कल्पादित्वं च ब्रह्मस्वभावमपि न प्रकाशते अविद्यासंसर्गात्। अनाद्यविद्योच्छेदे तु स्वरूपावस्थे ब्रह्मणि तेषां प्रतिभासस्तद्वत् परमानन्दस्वभावत्वस्यापीति । ___ असदेतत् अप्रमाणकत्वात् । तथाहि-न तावदेवंविधोऽभ्युपगमः प्रेक्षावताऽप्रमाणकोऽङ्गीकर्तुं युक्तः अतिप्रसङ्गात् । प्रमाणवत्त्वे च प्रत्यक्षाऽनुमानाऽऽगमेभ्योऽन्यतमद् वक्तव्यम् । तत्र न तावत् प्रत्यक्षम् एतदर्थव्यवस्थापकम् , अस्मदादीन्द्रियजन्यप्रत्यक्षस्यात्र वस्तुनि व्यापारानु-२५ पलम्भात् । 'योगिप्रत्यक्षं त्वेवं प्रवर्त्तते उतान्यथा' इति अद्यापि विवादगोचरम् । किञ्च, नित्यस्य सुखस्य तस्यामवस्थायामभिव्यक्तिरवश्यं संवेदनम्-अन्यथाऽभिव्यक्त्यभावात्तत्र च विकल्पद्वयम्-नित्यमनित्यं वा तद् भवेत् ? नित्यत्वे तस्य मुक्ति-संसारावस्थयोरविशेषप्रसङ्गःसंसारावस्थस्याऽपि नित्यसुखसंवेदनस्य नित्यत्वात् मुक्तावस्थायामपि तत्संवेदनादेव मुक्तत्वम्, तञ्च संसार्यवस्थायामप्यविशिष्टम् । अपि च, करणजन्येन सुखेन साहचर्य संसार्यवस्थायां३० तस्य गृह्येत ततश्च सुखद्वयोपलम्भः सर्वदा भवेत् । अथ धर्माधर्मफलेन सुखादिना नित्यसुखसंवेदनस्य संसारावस्थायां प्रतिबद्धत्वान्नानुभवः, शरीरादिना वा प्रतिबन्धात् तन्नानुभूयते तेन न द्वयोरवस्थयोरविशेषः । नापि युगपत् सुखद्वयोपलम्भः, अयुक्तमेतत् ; शरीरादे गार्थत्वान्न तदेव नित्यसुखानुभवप्रतिबन्धकारणम् ; न हि यद् यदर्थ तत् तस्यैव प्रतिबन्धकं दृष्टम् । न च वैषयिकसुखानुभवेन नित्यसुखानुभवप्रतिबन्धः सम्भवति । तथाहि-न तावत् सुखस्य नापि तदनु-३५ भवस्य प्रतिबन्धोऽनुत्पत्तिलक्षणो विनाशलक्षणो वा युक्तः, द्वयोरपि नित्यत्वाभ्युपगमात् । नापि संसारावस्थायां बाह्यविषयव्यासङ्गाद् विद्यमानस्याप्यनुभवस्यासंवेदनम् तदभावात्तु मोक्षावस्थायां संवेदनमित्यप्यस्ति विशेषः, नित्यसुखे ह्यनुभवस्यापि नित्यत्वाद् ब्यासङ्गानुपपत्तेः । तथाहिआत्मनो रूपादिविषयज्ञानोत्पत्तौ विषयान्तरे ज्ञानानुत्पत्तिासङ्गः, एवमिन्द्रियस्याप्येकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाजनकत्वं व्यासङ्गः । न चैवमात्मनो रूपादिविषय-४० ज्ञानोत्पत्तौ नित्यसुखे ज्ञानानुत्पत्तिः, तज्ज्ञानस्यापि नित्यत्वात् । शरीरादेस्तु सुखप्रतिबन्धकत्वा. १-प्रतिषेधः वि., वा०, बा. विना । २-पगमो न वा०, बा० । ३-दा तस्याः स्व-मां । ४-मात्मव्यति-वा०, बा०। ५-भवनप्रति-भा०। ६-क्तः तद्व-(तर-) मा०, भां०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy