SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १५० प्रथमे काण्डे - न चैकान्तेन तस्याऽक्षणिकत्वे सुखसाधनदर्शनादयः सम्भवन्तीत्यसकृदावेदितमावेदयिष्यते त्यास्तां तावत् । ततो नानैकान्तिको हेतुः, विपक्षेऽसम्भवात् । अत एव न विरुद्धोऽपि इति भवत्यतः सर्वदोषरहितात् केशनखादिरहितशरीरमात्रव्यापकस्य विवादाध्यासितस्यात्मनः सिद्धिरिति साधूक्तम्- 'ठाणमणोवमसुहमुवगयाणं' इति ॥ [ मुक्तिस्वरूपवादः ] [ पूर्वपक्ष:- मुक्ती आत्यन्तिकविशेषगुणोच्छेदस्य स्थापनम् ] दपि 'आत्यन्तिकयादिविशेषगुणोच्छेदविशिष्ट आत्मा मुक्तिः' इति, तदव्यप्रमाणकम् अथ तथाभूतमुक्तिप्रतिपादकं प्रमाणं विद्यते । तथाहि - नवानामात्म विशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वात्, यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यते, यथा प्रदीपसन्तानः, तथा १० चायं सन्तानः, तस्मादत्यन्तमुच्छिद्यते इति । सन्तानत्वस्य च व्यात्या बुद्ध्यादिषु सम्भवात् पक्षधर्मतयाऽसिद्धताऽभावः । तत्समानधर्मिणि धर्मिणि प्रदीपादावुपलम्भादविरुद्धत्वम् । न च विपक्षे परमाण्वादावस्तीत्यनैकान्तिकत्वाभावः, विपरीतार्थोपस्थापकयोः प्रत्यक्षाऽऽगमयोरनुपलम्भात् न कालात्ययापदिष्टः, न चायं सत्प्रतिपक्ष इति पञ्चरूपत्वात् प्रमाणम् । न च निर्हेतुकविनाशप्रतिषेधात् सन्तानोच्छेदे हेतुर्वाच्यः यतः समुच्छिद्यते इति, तत्त्व१५ ज्ञानस्य विपर्ययज्ञानव्यवच्छेदक्रमेण निःश्रेयसहेतुत्वेन प्रतिपादनात् । उपलब्धं च सम्यग्ज्ञानस्य मिथ्याज्ञाननिवृत्तौ सामर्थ्य शुक्तिकादौ न च मिथ्याज्ञानेनाप्युत्तरकालभाविना सम्यग्ज्ञानस्य विरोधः सम्भवति, सन्तानोच्छित्तेर्विवक्षितत्वात् । यथा हि सम्यग्ज्ञानाद् मिथ्याज्ञानसन्तानोच्छेदः नैवं मिथ्याज्ञानात् सम्यग्ज्ञानसन्तानस्य, तस्य सत्यार्थत्वेन बलीयस्त्वात् निवृत्ते च मिथ्याज्ञाने तन्मूलत्वाद् रागादयो न भवन्ति कारणाभावे कार्यस्यानुत्पादात्, रागाद्यभावे च तत्कार्या २० प्रवृत्तिर्व्यावर्तते, तदभावे च धर्माधर्मयोरनुत्पत्तिः, आरन्धकार्ययोश्चोपभोगात् प्रक्षय इति सञ्चितयोश्च तयोः प्रक्षयस्तत्त्वज्ञानादेव । तदुक्तम् — “यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा " ॥ [ भग० गी० अ० ४, श्लो० ३७ ] थोपभोगादपि प्रक्षये "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि " [ ] इत्याग२५ मोsस्ति, तथा च विरुद्धार्थत्वादुभयोरेकार्थे कथं प्रामाण्यम् ? उपभोगाच्च प्रक्षयेऽनुमानोपन्यास'मपि कुर्वन्ति- 'पूर्वकर्माण्युपभोगादेव क्षीयन्ते, कर्मत्वात् यद् यत् कर्म तत् तद् उपभोगादेव क्षीयते, यथाssroधशरीरं कर्म, तथा चैतत् कर्म, तस्मादुपभोगादेव क्षीयते' इति । न चोपभोगात् प्रक्षये कर्मान्तरस्यावश्यंभावात् संसारानुच्छेदः, समाधिबलादुत्पन्नतत्त्वज्ञानस्यावगतकर्म सामर्थ्यो • त्पादितयुगपदशेषशरीरद्वारावाता शेषभोगस्य कर्मान्तरोत्पत्तिनिमित्तमिथ्याज्ञान निजतानुसन्धान३० विकलस्य कर्मान्तरोत्पत्त्यनुपपत्तेः । न च मिथ्याज्ञानाभावेऽमिलापस्यैवासम्भवाद् भोगानुपपत्तिः, तदुपभोगं विना कर्मणां प्रक्षयानुपपत्तेर्ज्ञानतोऽपि तदर्थितया प्रवृत्तेः वैद्योपदेशादातुरस्येवौषधाद्याचरणे, ज्ञानमप्येवमशेषशरीरोत्पत्तिद्वारेणोपभोगात् कर्मणां विनाशे व्यापारादग्निरिवोपचर्यत इति व्याख्येयम्, न तु साक्षात् । न चैतद् वाच्यम् - तत्वज्ञानिनां कर्मविनाशस्तत्त्वज्ञानात् इतरेषां तूपभोगादिति, ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणाभावात् । न च मिथ्याज्ञानजनितसंस्कारस्य ३५ सहकारिणोऽभावात् विद्यमानान्यपि कर्माणि न जन्मान्तरशरीराण्यारभन्ते इत्यभ्युपगमः श्रेयान, अनुत्पादितकार्यस्य कर्मलक्षणस्य कार्यवस्तुनोऽप्रक्षयान्नित्यत्वप्रसक्तेः । अथ अनागतयोर्धर्माधर्मयोरुत्पत्तिप्रतिषेधे तज्ज्ञानिनो नित्य नैमित्तिकानुष्ठानं कथम् ? प्रत्यबायपरिहारार्थम् । तदुक्तम् ४० " नित्य नैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ [ ] १ - कान्तिकेन वा०, बा० । २ पृ० १३३ पं० २५ । ३ पृ० १३३ पं० २७ । ४ - न्यायद० अ० १, आ० १, सू० १-२ । ५-क्तेः । अनाग- वा० बा०, मां०, भां० विना । ६- प्रतिबन्धे तज्ज्ञा-आ०, कां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy