SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - " बुद्धेर्गुणत्वासिद्धे हेतु विशेषणा सिद्धया हेतोरसिद्धिरभिधातुं शक्या, बुद्धिगुणत्वस्यानुमानात् सिद्धे । । तथाहि - गुणो बुद्धि:, प्रतिषिध्यमानद्रव्य-कर्मभावे सति सत्तासंबन्धित्वात्; यो यः प्रतिषिध्यमानद्रव्य-कर्मभावे सति सत्तासंबन्धी स स गुणः यथा रूपादिः तथा च बुद्धिः, तस्माद् गुणः । न च प्रतिषिध्यमानद्रव्य - कर्मत्वमसिद्धं बुद्धेः । तथाहि - बुद्धिर्द्धव्यं न भवति, एकद्रव्यत्वात्, यद् ५ यद् एकद्रव्यं तत् तद् द्रव्यं न भवति यथा रूपादि, तथा च बुद्धिः, तस्माद् न द्रव्यम् । न वायमसिद्धो हेतुः । तथाहि एकद्रव्या बुद्धिः, सामान्य विशेषवत्त्वे सत्ये केन्द्रियप्रत्यक्षत्वात्, यद् यत् सामान्य- विशेषवत्त्वे सत्ये केन्द्रियप्रत्यक्षं तत् तद् एकद्रव्यम्, यथा रूपादि, तथा बुद्धिः, तस्मादेकद्रव्या । न च 'एकेन्द्रियप्रत्यक्षत्वात्' इत्युच्यमाने आत्मना व्यभिचारः, तस्यै केन्द्रियप्रत्यक्षत्वे विवादात् । नापि वायुना, तत्रापि तत्प्रत्यक्षत्वस्य विवादास्पदत्वात् । तथापि रूपत्वादिना १० व्यभिचारः, तन्निवृत्यर्थ 'सामान्य- विशेषवत्वे सति' इति विशेषणोपादानम् । न च रूपस्यान्तःकरणग्राह्यतया द्वीन्द्रियग्राह्यता, चक्षुरिन्द्रियस्यैव 'चक्षुषा रूपं पश्यामि' इति व्यपदेश हे तोस्तत्र करणत्वंसिद्धिः, मनसस्त्वान्तरार्थप्रतिपत्तावेवाऽसाधारणकरणत्वात् । अथवा एकद्रव्या बुद्धि:, सामान्य - विशेषवस्त्रे अगुणवत्वे च सत्यचाक्षुपप्रत्यक्षत्वात् शब्दवत् । तथा, न कर्म बुद्धिः, संयोग-विभागाकारणत्वात्, यद् यत् संयोगविभागाकारणं तत् तत् कर्म न भवति, यथा रूपादि, १५ तथा च बुद्धिः, तस्माद् न कर्म । तस्मात् सिद्धः प्रतिषिध्यमानद्रव्य - कर्मभावो बुद्धेः । न च सत्तासंबन्धित्वमसिद्धं बुद्धेः, तत्र 'सत्' इति प्रत्ययोत्पादात् । न च सत्ता भिन्ना न सिद्धा, तद्भेदप्रतिपादकप्रमाणसद्भावात् । तथाहि यस्मिन् भिद्यमानेऽपि यन्न भिद्यते तत् ततोऽर्थान्तरम्, यथा भिद्यमाने वस्त्रादावभिद्यमानो देहः, भिद्यमाने च बुद्ध्यादौ न भिद्यते सत्ता, द्रव्यादौ सर्वत्र 'सत् सत्' इति प्रत्ययाभिधानदर्शनात्; अन्यथा तदयोगात् । सा च बुद्धिसंबद्धा, ततस्तत्र २० विशिष्टप्रत्यय प्रप्रतीतेः । तथाहि यतो यत्र विशिष्टप्रत्ययः स तेन संबद्ध:, यथा दण्डो देवदत्तेन, भवति च बुद्ध्यादौ सत्तातस्तत्प्रत्ययः, ततस्तया संबद्धेति । 'प्रतिषिध्यमानद्रव्य - कर्मत्वात् ' इत्युच्यमाने सामान्यादिना व्यभिचारस्तन्निवृत्त्यर्थं 'सत्तासंबन्धित्वात्' इति वचनम् । 'सत्तासंबन्धित्वात्' इत्युच्यमाने द्रव्य-कर्मभ्यामनेकान्तस्तन्निवृत्त्यर्थं 'प्रतिविध्यमानद्रव्य-कर्मभावे सति' इति विशेषणम् । तदेवं भवत्यतोऽनुमानाद् बुद्धेर्गुणत्व सिद्धिः । } अस्मदाद्युपलभ्यमानत्वं च २५ बुद्धेस्तदेकार्थसमवेतानन्तरज्ञानप्रत्यक्षत्वाद् नासिद्धम् । नित्यत्वं चात्मनः 'अकार्यत्वात्, आकाशवत्' इत्यनुमानप्रसिद्धम् । अतो 'नित्यत्वे सत्यस्मदाद्युपलभ्यमानगुणाधिष्ठानत्वात्' इति हेतुर्नासिद्धः । १३४ नाप्यनैकान्तिकः, विपक्षेऽस्याऽप्रवृत्तेः । नापि विरुद्धः, विभुन्याकाशेऽस्य वृत्त्युपलम्भात् । नापि बाधितविषयः, प्रत्यक्षाऽऽगमयोरात्मन्यविभुत्व प्रदर्शकयोरसम्भवात् । नापि प्रकरणसमः, प्रकरण चिन्ताप्रवर्तकस्य हेत्वन्तरस्याभावात् । इति भवति सकलदोषरहितादतो हेतोः सर्वगता३० त्मसिद्धिः । [ उत्तरपक्षः - आत्मनो विभुत्वं निरस्य देहमात्रत्वव्यवस्थापनम् ] असदेतत् बुद्धेर्गुणत्वा सिद्धावात्मनस्तदधिष्ठानत्वासिद्धेरसिद्धो हेतुः । यश्चं 'प्रतिषिध्यमानद्रव्य-कर्मत्वे सति सत्तासंबन्धित्वात्' इति गुणत्वं बुद्धेः प्रसाध्यते तत्र सत्तायाः तत्समवायस्य च निषिद्धैत्वात् निषेत्स्यमानत्वाश्च 'सत्तासंबन्धित्वात्' इति तत्र हेतुरसिद्धः । ३५ समवायाभावे च बुद्धेरात्मनो व्यतिरेके तेन तस्याः सम्बन्धाभावात् 'आत्मनो द्रव्यत्वं गुणाश्रयत्वेन तस्याश्च तदाश्रितत्वेन गुणत्वम्' इति दूरोत्सारितम् । भवतु वा समवायसंबन्धस्तथापि आत्मगुण (णत्व) वत् तस्या अन्यर्गुणत्वस्याप्यप्रतिषेधात् तस्यास्तगुणत्वस्यैवासिद्धिः । व्यतिरेकाविशेषेऽपि 'आत्मन एव गुणो ज्ञानम् नाकाशादेः' इति किंकृतोऽयं विभागः ? न समवायकृतः, तस्यापि ताभ्यां व्यतिरेके 'तयोरेवासौ समवायः नाकाशादेः' इति विभागो दुर्लभः स्यात्, तस्य १- त्वसिद्धिर्न मनस्त्वान्त - वा०, बा० । २ - तावेव साधारणत्वात् । अ०, भा०, डे० । ३ पृ० १३३ पं० ३८ । ४ प्र० पृ० पं० २ । ५ पृ० १०६ पं० १० पृ० ११० पं० ९ । ६ - गुणत्वस्यात्वस्या प्यप्रति - वा०, जा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy