SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः। १३३ शोभते । अथेश्वराख्यः सर्वज्ञः साध्येत तदोक्तप्रकारेण प्रतिबन्धासिद्धेहेतूनामनैकान्तिकता, दृष्टान्तस्य च साध्यविकलतेति । शेषस्तु पूर्वपक्षग्रन्थो निःसारतयोपेक्षितः। अत ईश्वरसाधकस्य तन्नित्यत्वादिधर्मसाधकस्य च प्रमाणस्याभावात् "क्लेश-कर्म-विपाकाऽऽशयैरपरामृष्टः पुरुषविशेष ईश्वरः" [ योगद० पा० १, सू० २४] इत्यादि सर्वमयुक्ततया स्थितम् । अतो भवहेतुरागादिजयात् शासनप्रणेतारो जिनाः सिद्धाः। अतः सुव्यवस्थितमेतद भवजिनानां शासनमिति । ननु यदि तेषां भवनिबन्धनरागादिजेतृत्वं तदा शासनप्रणेतृत्वानुपपत्तिः, तज्जयानन्तरमेवापवर्गप्राप्तेः शरीराभावे वक्तृत्वासंभवात् । अथ रागादिक्षयानन्तरं नापवर्गप्राप्तिस्तर्हि रागादिजयो न भवक्षयलक्षणापवर्गप्राप्तिकारणम् ; न हि यस्मिन् सत्यपि यन्न भवति तत् तदविकलकारणं व्यवस्थापयितुं शक्यम्, यवबीजमिव शाल्यङ्करस्य । अथ निरवशेषरागाद्यजयाद् अपवर्गप्राप्तेः प्रागेव तत्प्रणेतृत्वाददोषः; नन्वेवं तच्छासनस्य रागलेशाऽऽश्लिष्टपुरुषप्रणीतत्वेन नैकान्तिकं प्रामाण्यं, १० कपिलादिपुरुषप्रणीतस्येव इत्याशङ्कयाह सूरिः-'ठाणमणोवमसुहमुवगयाणं' इति । अस्यामिप्रायः-यद्यपि सर्वज्ञताप्रतिबन्धिघातिकर्मचतुष्टयक्षयाविर्भूतकेवलज्ञानसम्पदो जिनास्तथापि भवोपनाहिशरारानबन्धनस्य कमेणः सद्भावादेल्पस्थितिकस्य न शरीराद्यभावात् शासनप्रणेतृत्वानुपपत्तिः, नापि रागादिलेशसद्भावात् तत्प्रणीतागमस्याऽप्रामाण्यम् , विपर्यासहेतो_तिकर्मणोऽत्यन्तक्षयात् । न च कर्मक्षयादपरस्याप्रवृत्तिनिमित्तत्वम्, भवोपग्राहिणोऽद्यापि सामस्त्येनाक्षयात् तत्क्षये चापव-१५ र्गस्थानन्तरभावित्वात् कर्मक्षयस्यैवापवर्गप्राप्तावविकलकारणत्वादिति । अवयवार्थस्तु-तिष्ठन्ति सकलकर्मक्षयावाप्तानन्तज्ञानसुखरूपाध्यासिताः शुद्धात्मानोऽस्मिन्निति स्थानं लोकाग्रलक्षणं विशिष्टक्षेत्रम्, न विद्यते उपमा स्वाभाविकात्यन्तिकत्वेन सकलव्याबाधारहितत्वेन च सर्वसुखातिशायित्वाद् यस्य तत् सुखमानन्दरूपं यस्मिंस्तत् तथा, तत् 'उप' इति कालसामीप्येन गतानां प्राप्तानाम्, यद्वा 'उप' इत्युपसर्गः प्रकर्षेऽप्युपलभ्यते, यथा “उपोढरागेण" [ ] इति । तेन स्थानमनुपमसुखं २० प्रकर्षण गतानामिति । “परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि तमर्थ गमयन्ति" [ इति न्यायादनुभूयमानतीर्थकृन्नामकर्मलेशसद्भावेऽपि तद् गता इत्र गता इत्युक्तास्तेन शासनप्रणेतृत्वं तस्यामवस्थायां तेषामुपपन्नमेव ॥ यद्वा “मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत् तापवर्जिताः"[ ] इत्येतस्य दुर्नयस्य निरासार्थमाह सूरिः- 'ठाणमणोवमसुहमुवगयाणं' अत्र च स्थानमनुपमसुखम्-प्रकर्षेण अपुनरावृत्या २५ गतानाम्-उपगतानामिति व्याख्येयम् । ___अथवा "बुद्ध्यादीनां नवानां विशेषगुणानामात्यन्तिकः क्षय आत्मनो मुक्तिः” [ ] इति मतव्यवच्छेदार्थमाचार्येण-'ठाणमणोवमसुहमुवगयाणं' इति सूत्रमुपन्यस्तम् । अस्य चायमर्थः-स्थितिः स्थानं स्वरूपप्राप्तिस्तद् अनुपमसुखम् 'उप' इति सकलकर्मक्षयानन्तरमव्यवधानेन गतानां प्राप्तानाम्-शैलेश्यवस्थाचरमसमयोपादेयभूतमनन्तसुखस्वभावमात्मनः कथञ्चिदनन्यभूतं ३० स्वरूप प्राप्तानामिति यावत् । [ आत्मपरिमाणवादः] [पूर्वपक्षः-आत्मनो विभुत्वस्थापनम् ] अत्राहुर्वैशेषिका:-सर्वमेतदनुपपन्नम्, आत्मनो विभुत्वेन विशिष्टस्थानप्राप्तिनिमित्तगत्य राराद्यभाव मुक्तात्मनां सुखस्य तद्धेतुनिमित्तासमवायिकारणाभावेनोत्पत्य-३५ संभवात् , नित्यस्य चानन्दस्यावैषयिकस्यानुपलम्भेनासत्त्वात् । न चात्मनो विभुत्वमसिद्धम्, अनुमानात् तत्सिद्धेः । तथाहि-बुद्ध्यधिकरणं द्रव्यं विभु, नित्यस्वे सत्यस्मदाद्युपलभ्यमानगुणाधिष्ठानत्वात् यद् यद् नित्यत्वे सत्यस्मदाद्युपलभ्यमानगुणाधिष्ठानं तत् तद् विभु, यथा आकाशम्, तथा च बुद्धयधिकरणं द्रव्यम् , तस्माद् विभु । { न च १-तारो जिना भवन्ति जिनाः वा०, बा० विना। २-दल्पविधि(ल्पावधि )कस्य न वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy