SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । ११७ त्वम् ; ननु पिशाचादिशरीरस्य शरीरत्वे सत्यपि कथमदृश्यत्वम् ? अस्मदादिचक्षुर्व्यापारेण तस्यानुपलम्भादिति चेत्; ननु यथा शरीरत्वे सत्यप्यस्मदादिशरीर विलक्षणं पिशाचादिलक्षणं शरीरमनुपलभ्यत्वेनाभ्युपगम्यते तथा घटादिविलक्षणं भूरुहादि कार्यत्वे सत्यप्यकर्तृकत्वेन किं नाभ्युपगम्यते ? तथाऽभ्युपगमे च पुनरपि प्रकृतो हेतुर्व्यभिचारी । तदेवमसिद्धत्वाऽनैकान्तिकत्व - विरु. द्धत्वदोषदुष्टत्वाद् नास्माद्धेतोः प्रस्तुतसाध्यसिद्धिः । तेन यदुक्तम् 'पृथिव्यादिगतस्य कार्यत्वस्या. ५ प्रतिपत्तेर्न तस्मादीश्वरावगमः' इति, तद् युक्तमेवोक्तम् । तूक्तम् 'पृथिव्यादीनां बौद्धैः कार्यत्वमभ्युपगतम् ते कथमेवं वदेयुः' इति, तदसारम् प्रकृतसाध्यसिद्धिनिबन्धनस्य कार्यत्वस्य तेष्वसिद्धत्वप्रतिपादनात् । यश्चाषि 'येऽपि चार्वाकास्तेषां कार्यत्वं नेच्छन्ति तेषामपि विशिष्टसंस्थानयुक्तानां कथमकार्यता' इति, तदप्ययुक्तम् ; संस्थानयुक्त - त्वस्यासिद्धत्वादिदोषदुष्टत्वप्रतिपादनात् । यच 'संस्थानशब्दवाच्यत्वं केवलं घटादिभिः सामान्यं १० पृथिव्यादीनाम्, न त्वर्थः कश्चिद् द्वयोरनुगतः समानो विद्यते' तदेवमेव यत्तूक्तम् 'धूमादावपि पूर्वापरव्यक्तिगतो नैव कश्चिदनुगतोऽर्थः समानोऽस्ति' इत्यादि, तदसङ्गतम् ; घटादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्य वैलक्षण्येन हेतोरसिद्धत्वप्रतिपादनात् । यदयुक्तम् 'व्युत्पन्नानामस्त्येव पृथिव्यादि संस्थानवस्व - कार्यत्वादेर्हेतोर्धर्मिधर्मताऽवगमः, अव्युत्पन्नानां तु प्रसिद्धानुमाने धूमादावपि नास्ति' इति, तदप्यचारु; यतो यद्यनुमाननिमित्तहेतुपक्ष- १५ धर्मत्व-प्रतिबन्धलक्षणां व्युत्पत्तिमाश्रित्य व्युत्पन्ना अभिधीयन्ते तदा पृथिव्यादिगतसंस्थान-कार्यस्वाद घटादिसंस्थानवैलक्षण्ये प्रकृतसाध्यसाधके व्युत्पत्तिर्न केषाञ्चिदपि भवति, यथोक्तसाध्यव्याप्तस्य पृथिव्यादौ संस्थानादेरभावात् । भावे वा शरीरादिमतोऽस्मदादीन्द्रियग्राह्यस्यामित्यबुद्धधादिधर्मकलापोपेतस्य घटादौ संस्थानादिहेतुव्यापकत्वेन प्रतिपन्नस्य कर्तुः पृथिव्यादौ ततः प्रतिपत्तिः स्यात्, न हि हेतुव्यापक मपहायाऽव्यापकस्य विरुद्धधर्माक्रान्तस्याऽपरस्य साध्यधर्मस्य प्रतिपत्तिः २० साध्यधर्मिणि यथोक्तलक्षणलक्षित हेतु बलसमुत्थेत्यनुमानविदां व्यवहारः । कारणमात्रप्रतिपत्तौ तु ततः तत्र न विप्रतिपत्तिरिति सिद्धसाध्यता । अथ हेतुलक्षणव्युत्पत्तिव्यतिरिक्तां व्युत्पत्तिमाश्रित्य 'व्युत्पन्नानाम्' इत्युच्यते तदा 'केनचित् स्रष्ट्रा जगत् सृष्टम्' इति निर्मूलदुरागमाहितवासनानामस्त्येव पृथिव्यादिसंस्थानवत्व- कार्यत्वादेर्हेतोर्धर्मिधर्मताऽवगमादिः न च तथाभूतधर्मिधर्मताद्यवगमात् साध्यसिद्धिः, वेदे मीमांसकस्याऽस्मर्यमाणकर्तृकत्वादेः धर्मिधर्मताऽवगमादेर्यथाऽपौरुषेय- २१ त्वस्य । 'अव्युत्पन्नानां तु प्रसिद्धानुमाने धूमादावपि नास्ति इति युक्तमेव, अस्माभिरप्यभ्युपगमात् । यतुं 'प्रासादादिसंस्थाना देवैलक्षण्येऽपि पृथिव्यादिसंस्थानादेः कार्यत्वादि पृथिव्यादीनामिध्यते, कार्ये च कर्तृ- करण- कर्मपूर्वकं दृष्टम्' इत्यादि, तदप्यसङ्गतम् ; यतो यदि नाम घटादेर्विशिष्टकार्यस्य कर्तृपूर्वकत्वमुपलब्धं नैतावताऽविशिष्टस्यापि भूरुहादिकार्यस्य कर्तृपूर्वकत्वमभ्युपगन्तुं युक्तम्; अन्यथा पृथिवीलक्षणस्य कार्यस्य रूप-रस- गन्ध-स्पर्शगुणयोगित्वमुपलब्धं भूतत्वे सति, ३० वायोरपि तद्योगित्वमभ्युपगमनीयं स्यात्, तत्त्वादेव । अथात्र प्रत्यक्षादिबाधः, स भूरुहादिकार्येवपि समान इति प्राक् प्रतिपादितम् । यत्तूक्तम् 'कर्तृपूर्वकस्य कार्यत्वादेस्तद्वैलक्षण्याद् न ततः साध्यावगमः' इत्यादि, तत् सत्यमेव तद्वैलक्षण्यस्य प्रसाधितत्वात् । अत एव सिद्धम् 'यागधिष्ठातृभावाभावानुवृत्तिमत् सन्निवेशादि' इत्यादिग्रन्थप्रतिपादिर्तस्य दूषणस्य कार्यत्वादौ सर्वस्मिन्नीश्वरसाधके हेतौ समानत्वाद् न कस्यचित् तत्साधकता । 'यद्येवमनुमानोच्छेदप्रसङ्गः, धूमादि ३५ यथाविधमन्यादिसामग्रीभावाभावानुवृत्तिमत् तथाविधमेतद् यदि पर्वतोपरि भवेत् स्यात् ततो वह्वयाद्यवगमः' इत्यादिकस्तु पूर्वपक्षग्रन्थः पूर्वमेव विहितोत्तरः । यथा यथाभूतोऽधूमव्यावृत्तो धूमोऽनग्निव्यावृत्तेनाऽग्निना व्याप्तो विपर्यये बाधकप्रमाणलादवसितो गिरिशिखरादावुपलभ्यमानस्तद्देशमग्निसामान्यम नियततार्ण- पार्णाद्यग्निव्यक्तिसमाश्रि ४० ९३ पं० ३९ । १ पृ० ९३ पं० ३८ । २० ९३ पं० ३८ । ३ पृ० ११५ पं० ११। ५ पृ० ११३ पं० ३८ । ६ पृ० ९४ पं० २ । ७ पृ० ९४ पं० ३ । ८ पृ० ११५ पं० ११ । ९ ० ९४ पं० १३ । १० ५०९४ पं० १५ । ११ पृ० १०८ पं० १९ । १२ पृ० ९४ पं० १७ । १३०९४० ६ । १४०९४ पं० १८ । १५ पृ० ९४ पं० १९ । १६ पृ० ११६ पं० ७ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy