SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११६ प्रथमे काण्डेप्रतिपन्नं तस्य क्षित्यादावसंभवात् , अन्यस्य च व्यक्तिस्वरूपस्य विवक्षितसामान्याश्रयत्वेनाप्रसिद्धत्वात्, निराधारस्य च सामान्यस्यासंभवात्, बुद्धिमत्कारणत्वसामान्यस्यैव क्षित्यादौ न सिद्धिः स्यात्न हि कचिद् गोत्वाधारस्य खण्डादिव्यक्तिविशेषस्याऽसंभवेऽन्यरूपमहिण्यादिव्यक्तिसमाश्रितं गोत्वं कुतश्चिद्धतोः सिद्धिमासादयति। ५ अथ कार्यत्वस्य क्षित्यादौ बुद्धिमत्कारणत्वाभावेऽभावप्रसङ्गाद् विलक्षणव्यत्तयाश्रितस्यापि तत्सामान्यस्य तत्र सिद्धिर्भवत्येव; यथा महानसविलक्षणगिरिशिखराद्याधारस्याग्निसामान्यस्य धूमात् प्रसिद्धिः । स्यादेतत्, यदि अधूमव्यावृत्तं धूममात्रमनग्निव्यावृत्तेनाग्निना व्याप्तं यथा प्रत्यक्षाऽनुपलम्भलक्षणात् प्रमाणात् प्रसिद्ध तथाऽत्राप्यबुद्धिमत्कारणव्यावृत्तेन बुद्धिमत्कारणत्व. मात्रेणाऽकार्यव्यावृत्तस्य कार्यमात्रस्य कुतश्चित् प्रमाणाद् व्याप्तिः सर्वोपसंहारेण निश्चिता स्यात्, १० याषता सैव न सिद्धा। अथ यथा कार्यधर्मानुवृत्तेः कार्य हुतभुजो धूमः, स तदभावेऽपि भवन हेतुमत्ता विलवयेत् इति नाग्निव्यतिरेकेण धूमस्य सद्भाव इति सर्वोपसंहारेण व्याप्तिसिद्धिस्तथा:प्रापि भूधरादि कार्यधर्मानुवृत्तितो बुद्धिमत्कारणकार्यम्, तद्भावे तद् भवद् निर्हेतुकं स्यादिति सोपसंहारेण व्याप्तिसिद्धिः। ननु घटादिलक्षणः कार्यविशेषो बुद्धिमदन्वय-व्यतिरेकानुविधायी य उपलभ्यमानस्तत्समानेषु पदार्थेष्वक्रियादर्शिनोऽपि कृतबुद्धिमुत्पादयति, स एव बुद्धिमत्कार १५णकार्यत्वात् तदभावे भवन निर्हेतुकः स्यादिति वक्तुं शक्यम्, न पुनः कार्यत्वमात्रं कारणमात्रहेतुकं बद्धिमत्कारणाभावे भवन्निर्हेतुकमासज्यते, तद्धि कारणमात्राभावे भवद निहेतुक स्यात् । नच कार्यविशेषः कर्तारमन्तरेण नोपलब्ध इति कार्यत्वमात्रमपि कर्तृविशेषानुमापकमिति न्यायविदा घल्लं युक्तम् । अन्यथा धूमविशेषस्तत्कालवह्रयव्यभिचरितो महानसादावुपलब्ध इति धूपघटिकादौ धूममात्रमपि तत्कालवयनुमापकं स्यात् । अथ तत्र तत्कालवयनुमाने ततः प्रत्यक्षविरोधः, स २० तर्हि भूरुहादावप्यकृष्टजाते कत्रनुमाने कार्यत्वलक्षणाद्धेतोः समानः । अथ तत्कर्तुरतीन्द्रियत्वा भ्युपगमाद् न प्रत्यक्षविरोधः, धूपघटिकादावपि वढेरतीन्द्रियत्वाभ्युपगमे को दोषो येन प्रत्यक्ष. विरोध उद्भाव्येत? अथ 'यदि तत्र तत्कालसंबन्ध्यनलो भवेत् तदा भास्वररूपसंबन्धित्वात् प्रत्यक्षः स्यात्' इत्यप्रत्यक्षत्वलक्षणो दोषः; ननु भास्वररूपसंबन्धित्वादनलो यदि तत्कालं स्यात् प्रत्यक्ष एव भवेदित्येतदेव कुतोऽवसितम्? महानसादौ तथाभूतस्यैव तस्य दर्शनादिति चेत्, नन्वेवं भूरु२५हादापपि यदि कर्ता स्यात् तदा शरीरवान् दृश्य एव स्यात् , घटादौ कर्तुस्तथाभूतस्यैव तस्योपलम्भात् इति समानं पश्यामः। __ अथ वृक्षशाखाभङ्गादिकार्यस्याऽदृश्यः पिशाचादिः कर्ता यथाऽभ्युपगतः, स्वशरीराऽवयवानों वाऽपरशरीरव्यतिरेकेणापि यथा वा प्रेरको देवदत्तादिः, तथा भूरुहादिकार्यकर्ताऽदृश्यः शरीरादिरहितश्च यदि स्यात् को दोषः? न कश्चिद् दृष्टव्यतिक्रमव्यतिरेकेण । तथाहि-देवदत्तादेरपि ३० स्वशरीरावयवप्रेरकत्वं विशिष्टशरीरसंबन्धव्यतिरेकेण नोपलब्धमित्येतावन्मात्रमेव तत्र तस्य कर्तृत्व निबन्धनम्, नापरशरीरसंबन्धस्तत्र तस्योपयोगी इति भूरुहादिकर्तुरपि शरीरसंबद्धस्यैव कार्यकरणे व्यापारो युक्तः नान्यथा। तत्संबन्धश्च तस्य यदि तत्कृतोऽभ्युपगम्यते तदा शरीरसंबन्धरहितस्य तदकरणसामर्थ्यमित्यपरशरीरसंबन्धोऽभ्युपगन्तव्यः; अन्यथा शरीरसंबन्धरहितस्य कथं प्रस्तुतकार्यकरणम्? तथा, तदभ्युपगमे वाऽपरापरशरीरनिर्वर्तने क्षीणव्यापारत्वादीशस्य न ३५भूरुहादिकार्य निर्वर्तनम् । अथ तदनिर्तितं तच्छरीरं तदाऽत्रापि वक्तव्यम्-किं तत् कार्यम्, उत नित्यमिति? यद्याद्यः पक्षः, तदा तस्य कार्यत्वे सत्यपि न कर्तृपूर्वकत्वम्, ततस्तेनैव कार्यत्वलक्षणो हेतुळमिचारी । अथ नित्यम्, तदा यथा तच्छरीरस्य शरीरत्वे सत्यपि नित्यत्वलक्षणः स्वभावातिक्रमोऽभ्युपगम्यते तथा भूरुहादेः कार्यत्वे सत्यप्यकर्तृपूर्वकत्वमभ्युपगन्तव्यमिति पुन रपि तैहेतुर्यभिचारी प्रकृतः। ४० पिशाचादेस्तु शरीरसंबन्धरहितस्य कार्यकर्तृत्वं मुक्तात्मन इवानुपपन्नम् । अथास्त्येव तस्य शरीरसंबन्धः, किन्वडश्यशरीरसंबन्धादसावश्यः कर्ताऽभ्युपगम्यते; ननु कुलालादेरपि शरीर संबन्ध एष दृश्यत्वं नापरम्, स्वरूपेणात्मनोऽदृश्यत्वात् । अथ रश्यशरीरसंबन्धात् तस्य श्य १-मां बाऽपर-मा.। २-करणन्या-कां ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy