SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०२ प्रथमे काण्डे प्रसिद्धं कथमन्यथाकर्तुं शक्यते अपह्रोतुं वा ? न तु कर्मणा सिद्धसाध्यता, तस्य सकलजगल्लक्षणकार्योपादानाद्यनभिज्ञत्वात् । तदभिज्ञत्वे वा तस्यैव भगवतः 'कर्म' इति नामान्तरं कृतं स्यात् । शेषं त्वत्र चिन्तितमेव । तदेवं सकलदोषरहितादुक्तहेतुकलापाद् ज्ञानाद्यतिशयवहुणयुक्तस्य सिद्धेः तस्य च शासनप्रणेतत्वं नान्येषां योगिनामिति 'भवजिनानां शासनम्' इति अयुक्तमुक्तमिति स्थितम ५इति पूर्वपक्षः॥ [ उत्तरपक्षः-जगतः ईश्वरकृतत्वनिराकरणम् ] अत्र प्रतिविधीयते-यत् तावदुक्तम्-'सामान्यतोदृष्टानुमानस्य तत्र व्यापाराभ्युपगमात् प्रत्यक्षपूर्वकानुमान निषेधे सिद्धसाधनम्' इति, तदसङ्गतम्; सामान्यतोदृष्टानुमानस्यापि तत्सा धकत्वेनाप्रवृत्तेः। तथाहि-तनु-भुवन-करणादिकं बुद्धिमत्कारणपूर्वकम्, कार्यत्वात् , घटादिवत् १० इत्यत्र धर्म्यसिद्धेराश्रयासिद्धस्तावत् कार्यत्वलक्षणो हेतुः। {तथाहि-अवयविरूपं तावत् तन्वादि अवभासमानतनु न युक्तम् ; देशादिभिन्नस्य तन्वादेः स्थूलस्यैकस्यानुपपत्तेः । न ह्यनेकदेशादिगतमेकं भवितुं युक्तम् , विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्देशादिभेदस्य च विरुद्धधर्मरूपत्वात् । तथाप्यभेदे सर्वत्र भिन्नत्वेनाभ्युपगते घट-पटादावपि मेदोपरतिप्रसङ्गात् ; नहि भिन्नत्वेनाभ्युपगते तत्राप्यन्यद् भेद निबन्धनमुत्पश्यामः । प्रतिभासभेदात् १५तत्र मेद इति चेत्, न; विरुद्धधर्माध्यासं भेदकमन्तरेण प्रतिभासस्यापि भेदानुपपत्तेः । अथ 'अवयवी एको न भवति, विरुद्धधर्माध्यासितत्वात्' इत्येतत् किं स्वतन्त्रसाधनम् , उत प्रसङ्गसाधनमिति? न तावत् स्वतन्त्रसाधनं युक्तम् , अवयविनः प्रमाणासिद्धत्वेन हेतोराश्रयासिद्धत्वदोषात्; प्रमाणसिद्धत्वे वा तत्प्रतिपादकप्रमाणबाधितपक्षनिर्देशानन्तरप्रयुक्तत्वेन तस्य कालात्ययापदिष्टत्वदोषदुष्टत्वात् । न च परस्यावयवी सिद्ध इति नाश्रयासिद्धत्वदोष इति वक्तुं २० युक्तम् , यतः परस्य किं प्रमाणतोऽसौ सिद्धः, उनाप्रमाणतः? प्रमाणतश्चेत् तर्हि भवतोऽपि किं न सिद्धःप्रमाणसिद्धस्य सर्वान् प्रत्यविशेषात्? तथा च तदेव कालात्ययापदिष्टत्वं हेतोः। अथाs. प्रमाणतस्तदा न परस्यापि सिद्ध इति पुनरप्याश्रयासिद्धत्वम् । तन्न प्रथमः पक्षः । नाऽपि द्वितीयः, यतः व्याप्याभ्युपगमो यत्र व्यापकाभ्युपगमनान्तरीयकः प्रदर्श्यते तत् प्रसङ्गसाधनम् । न च परस्य भेद-विरुद्धधर्माध्यासयोाप्यव्यापकभावः सिद्धः, देशादिभेदलक्षणविरुद्धधर्माध्यासाभावेऽपि २५ रूप-रसयोर्भेदाभ्युपगमात् । तद्भावेऽपि सामान्यादावभेदस्य प्रमाणसिद्धत्वादिति न वक्तव्यम् । यतः प्रथमः पक्षस्तावद् अनभ्युपगमादेव निरस्तः । प्रसङ्गसाधनपक्षे तु यद् दूषणमभिहितम्'देशभेदलक्षणविरुद्धधर्माध्यासाभावेऽपि रूप-रसयोर्भेदः' इति, तद् व्याप्यव्यापकभावापरिज्ञानं सूचयति न पुनर्व्याप्यव्यापकभावाभावम्, यतो देशभेदे सति यद्यभेदः क्वचित् सिद्धः स्यात् तदा व्यापकाभावेऽपि विरुद्धधर्माध्यासस्य भावान्न तस्य तेन व्याप्तिः स्यात् यदा तु देशाभेदेऽपि रूप३० रसयोर्भेदस्तदा देशमेदो मेव्यापको न स्यात् । न पुनरेतावता भेदो विरुद्धधर्माध्यासव्यापको न स्यात् । यदि हि मेदव्यावृत्तावपि देशादिभेदोन व्यावर्त्तत तदा व्यापकल्यावृत्तावपि व्याप्यस्याव्यावृत्तेन भेदेन देशादिविरुद्धधर्माध्यासो व्याप्येत; न चैतत् क्वचिदपि सिद्धम् । यत् तु 'सामान्यादावभेदस्य प्रमाणतः सिद्धर्मेदव्यावृनावपि न देशादिभेदलक्षणस्य विरुद्धधर्माध्यासस्य निवृत्तिः' इति, तदयुक्तम् । सामान्यादेः प्रमाणतोऽभिन्नरूपस्यासिद्धेः। उक्तंच३५“यदि विरुद्धधर्माध्यासः पदार्थानां भेदको न स्यात् तदाऽन्यस्य तद्भेदकस्याभावाद् विश्वमेक स्यात्" [ ] प्रतिभासमेदस्यापि तमन्तरेण भेदव्यवस्थापकस्याभावादिति व्याप्यव्यापकभावसिद्धेः कथं न प्रसङ्गसाधनस्यात्रावकाशः ? अथैकत्वप्रतिभासाद् देशादिमेदेऽपि तन्वादेरेकता, न; देशमेदेन व्यवस्थितानामवयवानां प्रतिभासभेदेन मेदात्। न ह्येकरूपा भागा भासन्ते, पिण्डस्याणुमात्रताऽऽपत्तेः; तद्यतिरिक्तस्य ४०चापरस्य तन्वाद्यवयविनो द्रव्यस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भेनासत्त्वात् । न च तस्योपलब्धिलक्षणप्राप्तता परैर्नाभ्युपगम्यते। १ पृ० ६९ पं० २०। २ पृ. ९३ पं० ३५। ३ प्र. पृ० पं० २४ । ४ "विरुद्धधर्माध्यासस्य" मां.टि.। ५ "भेदेन" मा.टि०। ६ प्र. पृ० पं० २५ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy