SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । १०१ प्रत्यक्षग्राह्यत्वम्” इच्छन्ति । डीन्द्रियग्राह्यत्वापेक्षया तु रूपसमवायाभावादनुपलब्धिरित्युक्तम् । तत्र सामान्येन द्वीन्द्रियग्राह्यग्राह्यस्य बुद्धिमत्कारणपूर्वकत्वसाधने सिद्धसाध्यतादोषः, घटादिषु उभयसिद्धेर्विवादाभावात्; अभ्युपेतबाधा च, अण्वाकाशादीनां तथाऽनभ्युपगमात् तेषां च नित्यत्वात् प्रत्यक्षादिबाधा । अतस्तदर्थं विमत्यधिकरणभावापन्नग्रहणम् । विविधा मतिर्विमतिविप्रतिपत्तिरिति यावत् तस्या अधिकरणभावापन्न विवादास्पदीभूतमित्यर्थः । एवं च सति ५ शरीरेन्द्रियभुवनादय एवात्र पक्षीकृता इति नाण्वादिप्रसङ्गः । कारणमात्रपूर्वकश्वेऽपि साध्ये सिद्धसाध्यता मा भूदिति बुद्धिमत्कारणग्रहणम् । साङ्ख्यं प्रति मतुबर्थानुपपत्तेर्न सिद्धसाध्यता अव्यतिरिक्ता हि बुद्धिः प्रधानात् साङ्ख्यैरुच्यते, न च तेनैव तदेव तद्वद् भवति । स्वार काणामवयवानां सन्निवेशः प्रचयात्मकः संयोगः- तेन विशिष्टं व्यवच्छिन्नं तद्भावस्तस्मात् । अवयवसन्निवेश विशिष्टत्वं गोत्वादिभिर्व्यभिचारीत्यतः स्वारम्भकग्रहणम् । गोत्वादीनि तु द्रव्यार- १० म्भकावयवसन्निवेशेन विशिष्यन्ते न तु स्वारम्भकावयवसन्निवेशेनेति । तेन योऽसौ बुद्धिमान् स ईश्वर इत्येकम् । द्वितीयं तु तनु-भुवन-करणोपादानानि चेतनाचेतनानि चेतनाधिष्ठितानि स्वकामारभन्त इति प्रतिजानीमहे, रूपादिमत्त्वात्, यद् यद् रूपादिमत् तत् तत् चेतनाधिष्ठितं स्वका मारभते, यथा तन्त्वादि, रूपादिमञ्च तनु-भुवन-करणादिकारणम्, तस्माच्चेतनाधिष्ठितं स्वकामारभते । योऽसौ चेतनस्तनु-भुवन-करणोपादानादेरधिष्ठाता स भगवानीश्वर इति । उद्योतकरस्तु प्रमाणयति - १५ " भुवनहेतवः प्रधान - परमाण्व - दृष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्तेः स्थित्वा प्रवृत्तेः, तन्तु-तुर्यादिवत्" [ न्यायवा० पृ० ४५७ ] इति । प्रशस्तमतिस्त्वाह "सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वात्, अप्र- २० सिद्धच ग्व्यवहाराणां कुमाराणां गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्राद्युपदेशपूर्वकः " [ ] इति । प्रबुद्धानां प्रत्यर्थनियतत्वादिति प्रबुद्धानां सतां प्रत्यर्थ नियतत्वादित्यर्थः । यदुपदेशपूर्वकश्च स सर्गादौ व्यवहारः स ईश्वरः प्रलयकालेऽप्यलुप्तज्ञाना तिशय इति सिद्धम् । तथाऽपराण्यपि उद्योतकरेण तत् सिद्धये साधनान्युपन्यस्ता नि "बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यक्तं सुख-दुःखनिमित्तं भवति, अचेतनत्वात्, कार्य- २५ त्वात् विनाशित्वात्, रूपादिमत्वात्, वास्यादिवत्" [ न्यायवा० पृ० ४५९ ] इति । अथ भवत्वस्माद्धेतुकदम्बकादीश्वरस्य सर्वजगद्धेतुत्वसिद्धिः सर्वज्ञत्वं तु कथं तस्य सिद्धम् येनासौ निःश्रेयसाभ्युदयकामानां भक्तिविषयतां यायात् ? जगत्कर्तृत्वसिद्धेरेवेति ब्रूमः । तथा चाहुः प्रशस्तमतिप्रभृतयः "कर्तुः कार्योपादानो-पकरण-प्रयोजन- संप्रदानपरिज्ञानात् " [ ] इह हि यो यस्य कर्त्ता ३० भवति स तस्योपादानादीनि जानीते, यथा कुलालः कुण्डादीनां कर्त्ता, तदुपादानं मृत्पिण्डम्, उपकरणानि चक्रादीनि प्रयोजनमुदकाहरणादि, कुटुम्बिनं च संप्रदानं जानीत इत्येतत् सिद्धम् ; तथेश्वरः सकलभुवनानां कर्त्ता, स तदुपादानानि परमाण्वादिलक्षणानि, तदुपकरणानि धर्म- दिककालादीनि व्यवहारोपकरणानि सामान्य- विशेष - समवायलक्षणानि, प्रयोजनमुपभोगम्, संप्रदानसंज्ञकांश्च पुरुषान् जानीत इति; अतः सिद्धमस्य सर्वशत्वमिति । अत एव नात्रैतत् प्रेरणीयम् - ३५ सर्वशपूर्वकत्वे क्षित्यादीनां साध्ये साध्यविकलो दृष्टान्तः, हेतुश्च विरुद्धः, असर्वज्ञकर्तृपूर्वकत्वेन कुम्भादेः कार्यस्य व्याप्तिदर्शनात्, किञ्चिज्ज्ञपूर्वकत्वे साध्येऽभ्युपेतबाधा, कारणमात्रपूर्वकत्वे साध्ये कर्मणा सिद्धसाधनमिति, यतः सामान्येन स्वकार्योपादानो-पकरण - संप्रदानाभिशकर्तृपूर्वकत्वं साध्यते तत्र चास्त्येव वस्त्रादिदृष्टान्तः । तस्य छुपादानो-पकरणाद्यभिज्ञकर्तृपूर्वकत्वं सकललोक १ पृ० १०० पं० ३८ । २ चेतनानि चे - वा०, बा०, गु०, हा० । वि० प्रतौ तु 'चेतनाचेतनानि' इति पाठः सन्नपि छिन्नः । प्रमेयकमलमार्तण्डे तु अत्र स्थले "तनु-करण-भुवनोपादानानि चेतनाधिष्टितानि स्वकार्यमारभन्ते " - पृ० ७५ प्रथ० पं० ४ । ३-षु च प्रत्य-भां० वा०, बा०, मां० विना | ४ धर्माऽधर्म - दिक्- गु० । ५-ज्ञपूर्वककां०, गु० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy