SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । ७५ स्तम्भादिप्रत्ययस्य, अत्राभ्युपगमे परलोकवादिनः स्वपनमनायामसिद्धमेव मन्यन्तेः "नहि दृष्टेऽनुपपन्नम्" इति न्यायात् । यथैव हि निश्चयरूपा मातापितृ-जन्मप्रतिबद्धत्वसिद्धिस्तथैवेहजन्मसंस्कारव्यावृत्तादिहजन्मप्रशाद्याकारविशेषान्निजजन्मान्तरप्रतिबद्धत्वसिद्धिरपि प्रत्यक्षनिश्चिता स्यादिति न परलोकक्षतिः । न च निश्चयप्रत्ययोऽनभ्यासदशायामनुमानतामतिक्रामति, “पूर्वरूपसाधर्म्यात् तत् तथाप्रसाधितं नानुमेयतामतिपतति" [ ] इति न्यायात् अन्वय- व्यतिरेक पक्षधर्मताऽनुसरण - ५ स्थानभ्यासदशायामुपलब्धेः अभ्यासदशायां च पक्षधर्मत्वाद्यनुसरणस्यान्यत्राप्यसंवेदनात् सिद्धमनुमानप्रतीतत्वं परलोकस्य । अथेतरेतराश्रयदोषादनुमानं नास्त्येवैवंविधे विषये इत्युच्येतः नन्वेवं सति सर्वभेदाभावतो व्यवहारोच्छेद इति तदुच्छेदमनभ्युपगच्छता व्यवहारार्थिनाऽवश्यमनुमानमभ्युपगन्तव्यम् । एतेन प्रत्यक्ष पूर्वकत्वाभावेऽप्यनुमानस्य प्रामाण्यं प्रतिपादितम् । न चानुमान पूर्वकत्वेऽपीतरेतराश्रय- १० दोषानुषङ्गः, तस्यैवेतरेतराश्रयदोषस्य व्यवहारप्रवृत्तितो निराकरणात् । यदयुक्तम् 'अनुमानपूर्वकत्वेऽनवस्थाप्रसङ्गान्नानुमानप्रवृत्तिः' इति, तदप्यसङ्गतम् एवं हि सति प्रत्यक्षगृहीतेऽप्यर्थे विप्रतिपत्तिविषये नानुमानप्रवृत्तिमन्तरेण तन्निरास इति बाह्येऽर्थे प्रत्यक्षस्याव्यापारात् पुनरप्यद्वैतापत्तेः शून्यतापत्तेर्वा व्यवहारोच्छेद इति व्यवहारवलात् सैवानवस्था परिहियत इति। अभ्युपगमवादेन चैतदुक्तम्; अन्यथा वाह्यार्थव्यवस्थापनाय प्रत्यक्षं प्रवर्तते । तथा, प्रद- १५ शितहेतोर्व्याप्तिप्रसाधनार्थ केषांचिद् मतेन निर्विकल्पम्, अन्येषां तु सविकल्पकं चक्षुरादिकरणव्यापारजन्यम्, अपरेषां मानसम् केषाञ्चिद् व्यावृत्तिग्रहणोपयोगि ज्ञानम्, अन्येषां प्रत्यक्षानुपलम्भबलोद्भूताऽलिङ्गजोहाख्यं परोक्षं प्रमाणं तत्र व्याप्रियत इति कथमनुमानेन प्रतिबन्धग्रहणेऽनवस्थे-तरेतराश्रयदोषप्रसक्तिः परलोकवादिनः प्रति भवता प्रेर्येत ? यदयुक्तम् 'सर्वमप्यनुमानमस्मान् प्रति प्रमाणत्वेनासिद्धम्' इत्यादि, तदप्यसङ्गतम् ; यतः किम- २० नुमानमात्रस्याप्रामाण्यं भवता प्रतिपादयितुमभिप्रेतम् "अनुमानमप्रमाणम्" इत्यादिग्रन्थेनं, अथ तान्त्रिकलक्षणक्षेपः, अतीन्द्रियार्थानुमानप्रतिक्षेपो वा ? न तावदनुमानमात्रप्रतिषेधो युक्तः, लोकव्यवहारोच्छेदप्रसङ्गात् । यतः प्रतियन्ति कोविदाः कस्यचिदर्थस्य दर्शने नियमतः किञ्चिदर्थान्तरं न तु सर्वस्मात् सर्वस्यावगमः । उक्तं चान्येन “स्वगृहान्निर्गतो भूयो न तदाऽऽगन्तुमर्हति ” । [ ] अतः किश्चिद् दृष्ट्रा कस्यचिदवर्ग मे निमित्तं कल्पनीयम् । तच्च नियतसाहचर्यमविनाभावशब्दवाच्यं नैयायिकादिभिः परिकल्पितम् । तदवगमश्च प्रत्यक्षाऽनुपलम्भ सहाय मानसप्रत्यक्षतः प्रतीयते । सामान्यद्वारेण प्रतिबन्धावगमाद् देशादिव्यभिचारो न बाधकः, नापि व्यक्त्यानन्त्यम्, उभयत्रापि सामान्यस्यैकत्वात् । सामान्याकृष्टाशेषव्यक्तिप्रतिभानं च मानसे प्रत्यक्षे यथा शतसङ्ख्याऽव. च्छेदेन 'शतम्' इति प्रत्यये विशेषणाकृष्टानां पूर्वगृहीतानां शतसङ्ख्या विषयपदार्थानाम् । तथाहि - ३० 'एते शतम्' इति प्रत्ययो भवत्येव । सामान्यस्य च सत्त्वमनुगताऽबाधितप्रत्ययविषयत्वेन व्यवस्थापितम् । तदेवं नियतसाहचैर्यमर्थान्तरं प्रतिपादयदुपलब्धं सत् प्रतिपादयति । उपलम्भश्वावश्यं कचित् स्थितस्य, सैव पक्षधर्मता, ततः सम्बन्धानुस्मृतौ ततः साध्यावगमः । यस्तु प्रतिबन्धं नोपैति तस्यापि कथं न सर्वस्मात् सर्वप्रतिपत्तिः अभ्युपगमे वाऽप्रतिपन्नेऽपि संबन्धे प्रतिपत्तिप्रसङ्गः ? । प्रमातृसंस्कारकारकाणां पूर्वदर्शनानामभावात् इत्यनुत्तरम्, संबन्धाप्रतिपत्तौ प्रमातृसं- ३५ स्कारानुपपत्तेः । दर्शनजः संस्कारोऽप्यनभिव्यक्तः सत्तामात्रेण न प्रतिपत्युपयोगीः न च स्मृतिमन्तरेण तत्सद्भावोऽपि । न चानुभवप्रध्वंसनिबन्धना स्मृतिः क्वचिद्विपये, संस्कारमन्तरेण तदनुपपत्तेः प्रध्वंसस्य च निर्हेतुकैत्वासंभवात् । यत्राप्यभ्यस्ते विषये वस्त्वन्तरदर्शनादव्यवधानेन वस्त्वन्तरप्रतिपत्तिस्तत्रापि प्राक्तनक्रमाश्रयणेन वस्त्वन्तरावगमः । इयांस्तु विशेषः - एकत्रानभ्य स्तत्वादन्तराले स्मृतिसंवेदनम्, अन्यत्राभ्यासाद् विद्यमानाया अप्यसंवित्तिः । केचित्तु “ योगिप्रत्यक्षं ४० १ मातृपितृ-भां०, कां० । २- प्रसाधितां कां०, गु० । ३ पृ० ७० पं० १७ । ४ पृ० ७४ पं० १९ । ५ व्याप्तिग्र - मां० ब० । ६ पृ० ७० पं० १७ । ७ पृ० ७० पं० १९-पृ० ७१ पं० ३ । ८-णाक्षेपः वा० । ९ 'लौकिकाः ' मां० टि० । कोकिलाः वा० । १०- गमेति (गम इति) निमित्तं वा०, बा० । ११ - चर्यमर्थमर्थान्तरं आ०, सा०, कृ०, ४० बिना । १२ - केषु चित्तु आदर्शेषु न्धेऽप्रतिपत्ति । १३ -कतासंभवात् वा०, मां०, भां० । २५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy