SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ २० प्रथमे काण्डेणनिवन्धना प्रमेयव्यवस्थितिः' इत्येवंवदता प्रमेयव्यवस्था प्रमाणनिमित्तैव प्रतिपादिता भवति; एतब प्रसङ्गसाधनम् , तच्च 'व्याप्यव्यापकभावे सिद्धे यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः प्रदर्श्यते' इत्येवंलक्षणम् , तेन प्रमेयव्यवस्था प्रमाणप्रवृत्त्या व्याप्ता प्रमाणतो भवता प्रदर्शनीया; अन्यथा प्रमाणप्रवृत्तिमन्तरेणापि प्रमेयव्यवस्था स्यात् । ततश्च कथं परलोकादिसाधकप्रमाणपर्यनुयो५गेऽपि परलोकव्यवस्था न भवेत् ? व्याप्यव्यापकभावग्राहकप्रमाणाभ्युपगमे च कथं कार्यहेतोः स्वभावहेतोर्वा परलोकादिप्रसाधकन्वेन प्रवर्त्तमानस्य प्रतिक्षेपः व्याप्तिप्रसाधकप्रमाणसद्भावेऽनुमानप्रवृत्तेरनायाससिद्धत्वात् ? प्रमाणाभावे तन्निवन्धनायाः प्रमेयव्यवस्थाया अप्यभाव इति प्रसङ्गविपर्ययः; स च 'व्यापकाभावे व्याप्यस्याप्यभावः इत्येवंभृतव्यापकानुपलब्धिसमुद्भूतानुमानस्वरूपः । एतदपि प्रस गविपर्ययरूपमनुमानं प्रमाणतो व्याप्यव्यापकभावसिद्धौ प्रवर्तत इति व्याप्तिप्रसाधकस्य प्रमाणस्य १० तत्प्रसादलभ्यस्य चानुमानम्य प्रामाण्ये स्ववाचैव भवता दत्तः स्वहस्त इति नानुमानादिप्रामाण्यप्रतिपादनेऽस्माभिः प्रयस्यते । अतो यदुक्तम् 'सर्वत्र पर्यनुयोगपगण्येव सूत्राणि बृहस्पतेः' इति, तद् अभिधेयशून्यमिव लक्ष्यते उक्तन्यायात् । यत् तुक्तम् 'प्रत्यक्षं सन्निहितविषयत्वेन चक्षुरादिप्रभवं परलोकादिग्राहकत्वेन न प्रवर्तते' तत्र सिद्धसाधनम् । यच्चोक्तम् 'नाप्यतीन्द्रियं योगिप्रत्यक्षम् , परलोकवत् तस्यासिद्धेः' इति, तद् विस्मर१५ णशीलस्य भवतो वचनम्, अतीन्द्रियार्थप्रवृत्तिप्रवणस्य योगिप्रत्यक्षस्यानन्तरमेव प्रतिपादितत्वात् । यत् पुनरिदमुच्यते 'नापि प्रत्यक्षपूर्वकमनुमानं तदभावे प्रवर्त्तते' तदसङ्गतम्, प्रत्यक्षेण हि संबन्धग्रहणपूर्व परोक्षे पावकादौ यथाऽनुमानं प्रवर्तमानमुपलभ्यते स एव न्यायः परलोकसाधनेsप्यनुमानस्य किमित्यदृष्टो दुष्टो वा । तथाहि-यत् कार्य तत् कार्यान्तरोद्भूतम्, यथा पटादिलक्षणं कार्यम् , कार्य चेदं जन्म इति भवत्यतो हेतोः परलोकसिद्धिः। तथाहि "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात । ___ अपेक्षातो हि भावानां कादाचित्कत्वसंभवः" ॥ [ ] इति । न तावत् कार्यत्वमिहजन्मनो न सिद्धम् , अकार्यत्वे हेतुनिरपेक्षस्य नित्यं सत्त्वाऽसत्त्वप्रसङ्गात् । अथ स्वभावत एव कादाचिकत्वं पदार्थानां भविष्यति, नहि कार्यकारणभावपूर्वकत्वं प्रत्यक्षत उपलब्धं येन तदभावानिवर्तेत, प्रत्यक्षतः कार्यकारणभावस्यैवासिद्धेः । यद्येवं बाह्येनाप्यर्थेन सह कार्यकारणभावस्या २५सिद्धेः स्वसंवेदनमात्रत्वे सति अद्वैतम् , विचारतस्तस्याप्यभावे सर्वशून्यत्वमिति सकलव्यवहारोच्छे दप्रसक्तिः । तस्माद् यथा प्रत्यक्षेण वाह्यार्थप्रतिबद्धत्वमात्मनः प्रतीयते-अन्यथेहलोकस्याप्यप्रसिद्धः, प्रत्यक्षतः तजन्यस्वभावत्वानवगमे तस्य तद्ग्राहकत्वासंभवात्। तथा चेहलोकसाधनार्थमङ्गीकर्तव्यं प्रत्यक्षं स्वार्थेनात्मनः प्रतिवन्धसाधकम्-तथा परलोकसाधनार्थमपि तदेव साधनमिति सिद्धः पर लोकोऽनुमानतः । यथा च वाह्यार्थप्रतिबद्धत्वं प्रत्यक्षस्य कादाचित्कन्वेन साध्यते, धूमस्यापि वह्निप्रति३० बद्धत्वम्, तथेहजन्मनोऽपि कादाचित्कन्वेन जन्मान्तरप्रतिबद्धत्वमपि । ततोऽनल-बाह्यार्थवत् पग्लोकेऽपि सिद्धमनुमानम् । ___ अथेहजन्मादिभूतमातापितृसामग्रीमात्रादप्युत्पत्तेः कादाचित्कत्वं युक्तमेवेहजन्मनः; नन्वेवं प्रदेश-समनन्तरप्रत्ययमात्रसामग्रीविशेषादेव धूम-प्रत्यक्षसंवेदनयोः कादाचित्कन्वमिति न सिध्यति पति-बाह्यार्थप्रतीतिरिति सकलव्यवहागभावः । अथाकारविशेषादेवानन्यथात्वसंभंविनोऽ३५नल-बाह्यार्थसिद्धिस्तहीहजन्मनोऽपि प्रज्ञा-मेधाद्याकारविशेषत एव मातापितृव्यतिरिक्तनिजजन्मान्तरसिद्धिः । तथा. यथाऽऽकार विशेष एवायं तैमिरिकादिज्ञानव्यावृत्तः प्रत्यक्षस्य बाह्यार्थमन्तरेण न भवतीति निश्चीयते-अन्यथा वाह्यार्थासिद्धीद्धाभिमतसंवेदनाद्वैतमेवेति पुनरपि व्यवहाराभावः-तथेहजन्मादिभूतप्रज्ञाविशेषाद् इहजन्मविशेषाकारो निजजन्मान्तरप्रतिबद्ध इति निश्चीयताम नुमानतः । अथ प्रत्यक्षमेव सविकल्पकं परमार्थतः प्रतिपत्तुः “ततः परं पुनर्वस्तु धर्मः” [ श्लो० वा. ४० सू०४, श्लो०१२० ] इत्यादि मीमांसकादिप्रसिद्ध साधकं वह्नि-बाह्यार्थपूर्वकत्वस्य धूम-जाप्रत्पुरोवृत्ति १-स्वरूपम् वा० विना। -व्यापकसिद्धी कां० । ३ पृ. ६९ पं०३९। ४ पृ. ७. पं. ५ । .. पृ. ७० पं० । मर्वज्ञमिद्धिप्रस्तावे। पृ० ०५० ८। ८-कार्यस्य कारण-कां., गु०। ९-म. वतो-गु०। १०-पादिजन्म-वा. विना। ११-पुरोवर्ति-मा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy