SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [५३ दीपालिकाकल्पः ॥] आबद्धमौलिमुकुट: कुण्डलोल्लिखिताननः । हारार्द्धहारकेयूरैः कल्पद्रुरिव जङ्गमः ॥७६।। सकोरिण्टदामछत्रचारुचामरवीजितः । नृपतिः शशीवाभ्रेभ्यो निर्ययौ मज्जनौकसः ॥७७।। त्रिभिर्विशेषकम् ॥ अन्वीयमानमार्गोऽथ बहुभिर्गणनायकैः । सेनापतिमहामन्त्रि-कौटुम्बिकमण्डविकैः ॥७८॥ राजेश्वरैस्तलवरैर्गणकामात्यमन्त्रिभिः । दौवारिकैः पीठमभटै गरनैगमैः ॥७९॥ सार्थवाहश्रेष्ठिदूतसन्धिपालैश्च भूपतिः । आससाद सदस्ताराधिपवत्तारकैर्वृतः ॥८०॥ स्वयं सिंहासनासीनः त्रिशलां स महीपतिः । तिरस्करिण्यान्तरिते भद्रासने न्यवीविशत् ॥८१॥ अथाकार्य स्वप्नपाठा-नीशान्यामासनाष्टके । निवेश्य राजा सच्चक्रे वस्त्रपुष्पफलादिभिः ॥८२।। स्वप्नानां फलमापृच्छ-त्ते विमृश्य परस्परम् । ऊचुश्चैकमतीभूय शृणु स्वप्नफलं विभोः ॥८३।। द्वाचत्वारिंशत्सुस्वप्ना महास्वप्नादशत्रिकम् । एवं द्वासप्ततिः स्वप्नाः स्वप्नशास्त्रेषु कीर्तिताः ॥८४॥ तत्रार्हतां च चक्रिणां वीक्षन्ते मातरः किल । चतुर्दश महास्वप्नान् केशवानां तु सप्त तान् ॥८५।। चतुरो बलदेवाना-मेकं सामान्यभूभृताम् । देव्या दृष्टा महास्वप्ना-श्चतुर्दश महाफलाः ॥८६॥ ततः कुलस्य युष्माकं केतुर्दीपोऽवतंसकः । तिलकः पर्वताधारो नन्दिवृद्धियशस्करः ॥८७।। सुकुमारपाणिपादः पूर्णपञ्चेन्द्रियात्मकः । लक्षणव्यञ्जनोपेतः मानोन्मानप्रमाणयुक् ॥८८॥ १. अवसरज्ञैः पुरुषैः । 25 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy