SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४०] [दीपालिकापर्वसंग्रहः ॥ स्वामिनो मोक्षसमयं, विज्ञायासनकम्पतः । सुरासुरेन्द्रस्तत्रेयुः, सर्वेऽपि सपरिच्छदाः ॥२५८॥ सहस्राक्षोऽश्रुपूर्णाक्षः, प्रणम्य च जगद्गुरुम् । विरचय्याञ्जलिं मूनि, ससम्भ्रममदोऽवदत् ॥२५९॥ 'गर्भे जन्मनि दीक्षायां, केवले च तव प्रभो । हस्तोत्तरक्षमधुना तद्गन्ता भस्मकग्रहः ॥२६०॥ विपद्यमानस्य जन्मऋक्षं, क्रमान् स दुर्ग्रहः । बाधिष्यते ते सन्तानं, सहस्रे शरदामुभे ॥२६१।। प्रतिपालय नाथ त्वं, तस्य सङ्क्रमणक्षणम् । स यथा त्वत्प्रभावेण, विफलो भवति ग्रहः' ॥२६२॥" स्वाम्यथोचे 'न कोप्यायुः, शक्र ! सन्धातुमीश्वरः । विदन्नपि वदस्येवं, किं तीर्थप्रेममोहितः ? ॥२६३।। प्रवर्त्तनाद् दुषमायास्तीर्थबाधा भविष्यति । भवितव्यतानुसाराद्भस्मकस्योदयोऽप्यभूत्' ॥२६४।। वज्रिणं बोधयित्वैवं सार्धषण्मासवर्जितम् । त्रिंशदब्दी केवलित्वे, परिपाल्य जगद्गुरुः ॥२६५।। पर्यङ्कासननिषिन्नो, योगे कायस्य बादरे । स्थितो वाङ्मनसयोगावरोत्सीदथ बादरौ ॥२६६॥ सूक्ष्मं च वपुषो योगमास्थाय परमेश्वरः । रूरोध बादरकाययोगं योगविचक्षणः ॥२६७।। तौ च सूक्ष्मौ वाङ्मनसयोगावप्यरुणत् प्रभुः । इति सूक्ष्मक्रियं शुक्लध्यानं चक्रे तृतीयकम् ॥२६८।। १. प्रणम्याऽथ । C-२२६। २. तद्गता A, B । तद्गता C-१२९ । ३. तन्नाथ ।C-१२९ । ४. अस्यानन्तरं C मध्ये कुस्वप्ना कुशकुनानि दुर्ग्रहा यान्ति शस्तताम् । अन्येषामपि सर्वेषां हृदि त्वां धारयन्ति ये ॥C-२३०।। किं पुनर्यत्र साक्षात् त्वं स्वामिन् समवतिष्ठसे। प्रसीद तत्क्षणं तिष्ठ दुर्ग्रहोपशमोऽस्तु तत् ॥C-२३१।। इति द्वौ श्लोकावधिको स्तः । ५. तीर्थप्रेमविमोहित: B। ६. श्लोकोऽयं A,C, I मध्ये उपलभ्यते । श्लोकसंख्या २६५ तः २६९ पर्यन्तं श्लोकाः A, C, I मध्ये उपलभ्यन्ते । ७. ०मनसो योगा A I 15 20 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy