SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ दीपालिकाव्याख्यानम् ॥] [१८७ बिलवासिनो बहिर्निर्गमिष्यन्ति मांसाशनं त्यक्त्वा कुसुमफलधान्यादीन्याहरिष्यन्ति, ततस्तेषां संहननरूपवर्णजीवितशरीरादीनि वृद्धिं यास्यन्ति ते च रोगरहिताः क्रमेण भाविनः । सुखकारिणः पवना ऋतवो वारीणि च भविष्यन्ति, द्वितीयारकस्य प्रान्ते भरतक्षेत्रे मध्यभागे सप्तकुलकरा भविष्यन्ति तेषामनुक्रमेणैतानि नामानि विमलवाहनः, सुदामः, सङ्गमः, सुपावो, दत्तः, सुमुखः, समुचिश्चेति तेषु सञ्जात- 5 जातिस्मरणो विमलवाहनकुलकृद् राज्यस्थित्यर्थं ग्रामनगरादिकस्थापनं कृत्वा, गवाश्वगजादीनां संग्रहं कृत्वा, हुतभुजि समुत्पन्नेऽन्नपाकविधिं च दर्शयित्वा, द्वासप्ततिकला: शिल्पशतं लिपीश्च शिक्षयिष्यति ततो लोका व्यवहारज्ञा भविष्यन्ति । ततस्तृतीयारकस्यैकोननवतिपक्षे व्यतीते शतद्वाराभिधपुरे समुचिभूपपत्न्या महादेव्याह्वायाश्चतुर्दशस्वप्नदर्शनप्रकटपुण्यशाली श्रेणिकभूपजीवः प्रथम तीर्थंकर: 10 पद्मनाभाह्वः पुत्रो भविष्यति । स शरीरोन्नतत्ववर्णायुर्लाञ्छानादिना श्रीमहावीरतीर्थंकरसदृशो भविष्यति ततः पश्चानुपूर्व्या श्रीपार्श्वनाथनेमिनाथादितुल्याः क्रमेणामी तीर्थंकरा भविष्यन्ति । श्रीवीरपितृव्यस्य सुपार्श्वस्य जीवो द्वितीयः सूरदेवस्तीर्थंकरः, कोणिकात्मजोदायिजीवस्तृतीयः सुपार्श्वतीर्थंकरः, पोट्टिलाणगारजीवश्चतुर्थः स्वयम्प्रभजिनः, दृढायुश्राद्धजीवः पञ्चमः सर्वानुभूतिजिनः, कार्तिकश्रेष्ठिजीवः षष्ठो 15 देवश्रुतजिनः, शङ्खश्राद्धजीवः सप्तम उदयजिनः, आनन्दजीवोऽष्टमः पेढालजिनः, सुनन्दजीवो नवमः पोट्टिलजिनः, शतकजीवो दशमः शतकीर्तिजिनः, देवकीजीव एकादशो मुनिसुव्रतजिनः, कृष्णवासुदेवजीवो द्वादशोऽममजिनः, सत्यकिविद्याधरजीवस्त्रयोदशो निष्कषायजिनः, बलभद्रजीवश्चतुर्दशो निष्पुलाकजिनः, सुलसाजीवः पञ्चदशो निर्ममजिनः, रोहिणीजीवः षोडशाश्चित्रगुप्तजिनः, रेवतीजीव: 20 सप्तदशः समाधिजिनः, शतालिश्राद्धजीवोऽष्टादशः संवरजिनः, द्वीपायनजीव एकोनविंशो यशोधरजिनः, कर्णजीवो विंशतितमो विजयजिनः, नारदजीव एकविंशतितमो मल्लजिनः, अम्बडजीवो द्वाविंशतितमो देवजिनः, अमरश्रावकजीवस्त्रयोविंशतितमोऽनन्तवीर्यजिनः, स्वातिजीवश्चतुर्विंशतितमश्च भद्रकृज्जिनः, इति भावि चतुर्विंशतिजिननामानि । अथ भाविचक्रवर्तिनामानि प्रोच्यन्ते-दीर्घदन्तः, 25 गूढदन्तः, शुद्धदन्तः, श्रीचन्द्रः, श्रीभूतिः, श्रीसोमः, पद्मः, महापद्मः, विमलः, विमलवाहनः, भरतः, अरिष्टश्चेति । अथ वासुदेवनामानि प्रोच्यन्ते-नन्दिः, नन्दिमित्रः, D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy