SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ दीपमालिकाव्याख्यानम् ॥] [१६१ अश्लेषाप्रथमपादे कलङ्किनो जन्म भविष्यति, त्रिहस्तशरीरोन्नतत्वं भविष्यति, कपिलवर्णाः केशा मस्तके भविष्यन्ति, नेत्रे पीते भविष्यतः, तीक्ष्णस्वरो भविष्यति, महाविद्यावान् दीर्घहृदयो गुणरहितश्च भविष्यति, तस्योत्पत्तेरारभ्य पञ्चमे वर्षे उदरपीडा भविष्यति, सप्तमे वर्षेऽग्निपीडा भविष्यति, एकादशे वर्षे तस्य द्रव्यप्राप्तिः भविष्यति, अष्टादशे वर्षे कातिकमासे शुक्लपक्षे प्रतिपदि तिथौ शनिवारे तुलाचन्द्रे 5 स्वातिनक्षत्रे नन्दनदिने सिद्धयोगे बवकरणे रावणमुहूर्ते राज्याभिषेको भविष्यति, तस्य आनन्दनामा तुरङ्गमो भविष्यति, दुर्भासकनामा कुन्तो भविष्यति, मृगाङ्कनामा मुकुटो भविष्यति, दैत्यसूदनखड्ग भविष्यति, तस्य कटिप्रदेशे चन्द्रसूर्यौ भविष्यतः पुनः कल्की विक्रमादित्य संवत्सरमुत्थाप्य अमितसुवर्णदानात् स्वसंवत्सरं स्थापयिष्यति, एकोनविंशतितमे वर्षे निजभुजबलेनार्धभरतत्रिखण्डं साधयिष्यति, सार्धविंशतिवर्षे 10 अर्बुदराज्ञः पुत्री परिणेष्यति, अन्यासां बह्वीनां राज्ञीनां पतिर्भविष्यति, एवं ताभिः सह महाभोगे भुज्यमाने तस्य महापराक्रमधारिणश्चत्वारः पुत्रा भविष्यन्ति, तन्नामान्याहदत्त १ विजय २ मुञ्ज ३ अपराजिताख्याः ४ कल्किनः पाटलीपुरे राजधानी भविष्यति, तस्य पाटलीपुरस्य कलङ्किपुरमिति द्वितीयं नाम भविष्यति, दत्तस्य प्रथमपुत्रस्य राजगृहे राजधानी भविष्यति, तस्य नगरस्य दत्तपुरं नाम भविष्यति, 15 विजयस्याणहल्लपत्तनस्य राजधानी भविष्यति, अणहल्लपत्तनस्य द्वितीयं नाम विजयपुरं भविष्यति, मुञ्जस्योज्जयिनीदेशं दास्यति, अपराजितस्यान्यमण्डलं दास्यति, कल्किनो राज्यावसरे म्लेच्छक्षत्रिययो रुधिरेण पृथिवी स्नानं करिष्यति, तस्यैकोनकोटिसुवर्णानां कोष्ठागारा भविष्यन्ति, चतुर्दशसहस्रप्रमाणा हस्तिनो भविष्यन्ति, सार्धचतुर्दशसहस्राधिकसप्ताशीतिलक्षा (८७१४५००) घोटका 20 भविष्यन्ति, पञ्चकोटिप्रमाणाः पदात्तयो भविष्यन्ति, दासादीनां तु बह्वीः संख्या भविष्यन्ति, नभः खलनाम त्रिशूलं भविष्यति, दृषन्मयतुरङ्गमः आरोहणार्थं वाहनं भविष्यति, दुरात्मा अत्यन्तकषायो भविष्यति, यदा कल्की राज्यं करिष्यति, तदा मथुरामध्ये कृष्ण-बलभद्रयोरायतनं पतिष्यति, बहुडमरदुर्भिक्षरोगैमनुष्याः पीडां प्राप्स्यन्ति पञ्चसु स्तुम्भिकासु बहु धनमस्तीति लोकानां मुखात् श्रुत्वा आनन्दराज्ञा 25 निष्पादिताः पञ्च सुवर्णमयी: स्तुम्भिकाः कल्की खनयिष्यति, सर्वनिधानं निष्कासयिष्यति, तत्र गोरूपा लवणदेव्या मूर्तिः दृषन्मयी प्रकटीभविष्यति तां गृहीत्वा राजादिप्रमुखाः सर्वलोकाः सम्भूय नगरचतुष्पथमध्ये स्थापयिष्यन्ति, D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy