SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५४] [दीपालिकापर्वसंग्रहः ॥ युद्धकराश्च भविष्यन्ति गुरुशुश्रुषाकरा न भविष्यन्ति १६, एवं श्रुत्वा चन्द्रगुप्तो नाम राजाऽनशनं गृहीत्वा धर्मध्यानेन स्वर्गं गतः । इति षोडश-स्वप्नविचार: कथितः । एतादृशं प्रभोर्वाक्यं श्रुत्वा गौतमस्वामी चित्ते विस्मयं विधाय प्रभोर्वन्दनां कृत्वा भाविस्वरूपं पप्रच्छ-अहो स्वामिन् ! लोकालोकप्रकाशक ! पञ्चम-षष्ठारकयोः 5 स्वरूपं कथय, प्रभुर्वक्ति स्म-हे गौतम ! त्वं सावधानीभूय श्रृणु-मम निर्वाणात् त्रिवर्षसार्धाष्टमासे व्यतिक्रान्ते चतुर्थारक उत्तरिष्यति, अग्रे च पञ्चमारक आयास्यति, ततो मम निर्वाणाद् द्वादशवर्षे व्यतिक्रान्ते तव मोक्षो भविष्यति, ततोऽस्मन्निर्वाणाद् विंशतिवर्षे गत सुधर्मस्वामिनो मोक्षो भविष्यति, ततोऽस्मन्निर्वाणाच्चतुष्पष्टिवर्षे गते जम्बूर्मुक्ति यास्यति, ततो जम्बूस्वामितो दश वस्तूनि विच्छेदं यास्यन्ति, तान्याह 10 आहारकशीरं १, मनःपर्यवज्ञानम् २, पुलाकलब्धिः ३, परमावधिज्ञानं ४, क्षपक श्रेणिः ५, उपशमश्रेणिः ६, केवलज्ञानम् ७, परिहारविशुद्धिसूक्ष्मसंपराययथाख्यातचारित्राणि ८, सिद्धिगतिः ९, जिनकल्पक: १०, एतानि दश वस्तूनि जम्बूस्वामितो विच्छेदं यास्यन्ति, ततो दुःषमकालप्रभावतश्चतुर्दशपूवधारी जम्बू स्वामि प्रतिबोधक: निजपट्टप्रभावकः श्रीप्रभवस्वामी भविष्यति । तत्पट्टे चतुर्दश15 पूर्वधरः दशवैकालिककर्ता मनकपिता श्रीशय्यम्भवसूरिः भविष्यति, तत्पट्टे चतुर्दशपूर्वधारी यशोभद्रसूरिभविष्यति, तच्छिष्यौ सम्भूतिविजय-भद्रबाहुनामानौ चतुर्दशपूर्वधरौ भविष्यतः, ततो मम निर्वाणात् सप्तत्यधिकशतवर्षे (१७०) अनेकशास्त्रकर्ता भद्रबाहुः स्वर्गं यास्यति, ततो मम निर्वाणात् पञ्चदशाधिकद्विशतवर्षे (२१५) चतुर्दशपूर्वधारी सम्भूतिविजयशिष्यः श्रीस्थूलभद्रो देवलोकं 20 यास्यति, ततः प्रथमं संहननं वज्रऋषभनाराचाख्यं विच्छेदं यास्यति, ततोऽर्थतः चतुष्पूर्व-सूक्ष्मसंपराय-महाप्राणायामध्यानाख्यानि एतानि विच्छेदं यास्यन्ति, ततः मन्निर्वाणाद् त्रिशतवर्षे (३००) उज्जयिन्यां नगर्यां सम्प्रति राजा भविष्यति, स च आर्यसुहस्तिसूरिणामुपदेशाद् जातिस्मरणज्ञानमवाप्य जैनधर्ममङ्गीकरिष्यति, स्वभुजबलात् त्रिखण्डभोक्ता भविष्यति, ज्ञानवान् दानवान् न्यायी धर्मज्ञो विनयवान् पराक्रमी 25 च भविष्यति मुक्ताफलवद् निर्मलजिनालयैः कृत्वा धरित्रां देदीप्यमानां करिष्यति, पुनः स राजा अनार्यदेशे लोकानामुपकारार्थं सम्यक्त्वधारिणां जीवाजीवादिनवतत्त्वविदामुपदेशदानार्थं तादृशानां श्रावकाणां धर्मसंयोगं कारयिष्यति, ततो महासंविज्ञगीतार्थानां साधूनां म्लेच्छधरित्र्यां विहारं कारयिष्यति, अनया रीत्या तीर्थङ्कराणां धर्मस्य D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy