________________
१४२]
[ दीपालिकापर्वसंग्रहः ॥ च किं संकीर्णमभविष्यत् ? तत्र त्वनन्ताः स्वस्वधर्मयुक्ता अनन्तगुणपर्यायान्विताः परस्परबाधासंघट्टनाद्यभावेन स्थिताः सन्ति स्थास्यन्ति चेत्यादि सिद्धिवर्णनं त्वयैवादिष्टं । सहसाऽत्र वियोगः कथं विहितः ? ।
वीतराग ! तव दर्शनमुक्तौ, भ्रान्तवान्निखिलयोनिनिकाये । भूरिशोऽहमथ तद्यदि लब्धं, तेन माऽस्तु सहसाऽत्र वियोगः ॥१॥ वीतराग ! सफलः स वासरः, स क्षणः स पलः सुलक्षणः । याम एव स तु सर्वकामदो, यत्र वन्दनमहस्तवाभवत् ॥२॥ मां प्रलोभ्य गमनं तव नाह, बालकं प्रतिदिनं कृतमिष्टम् । गोयमेति वचनैः श्रुतिमध्ये, को वदिष्यति तवागमसारम् ॥३॥ देहि देहि जिननाथ ! दर्शनं, लङ्घनस्य समयो न शोभते । मुञ्च मुञ्च भगवन्निजाग्रह, तारकेति कथमन्यथा प्रथा ॥४॥ कस्य पादकमलानि(लं च) वन्द्यते, जीवितं त्वयि विधायितं मया ।
युक्तितश्च विविधात्मनिश्चयात् , स्वीकृतोऽसि जिनदेव ! पाहि माम् ॥५॥
इत्यादि प्रशस्तरागरञ्जितचेताः क्षयोपशमरत्नत्रयीधारको गणभृत् किञ्चिदुपालभ्य 15 वीतरागशब्दस्यार्थं चिन्तयन् क्षपक श्रेण्यारूढ: केवलज्ञानं प्राप । पूर्वं केवलज्ञान
कृतेऽनेक उपायाः कृतास्तथापीदृशो भावोऽनन्तानन्तकालं परिभ्रमता तस्मिन्नेव क्षेत्रे काले भावे च तदैव प्राप्तः । अथ शक्रः श्रीवीरस्य मोक्षमहिमानं कृत्वा प्रतिपद: प्रगे श्रीगौतमप्रभोः पूर्णज्ञानोत्सवं चक्रे । यतः
स्वर्णाष्टाग्रसहस्रपत्रकमले, पद्मासनस्थं मुनिं ।। स्फूर्जल्लब्धिविभूषितं गणधरं, श्रीगौतमस्वामिनम् ॥ श्रीगौतमोक्तसूरिमन्त्राराधकसूरयोऽत्र दिनेऽक्षार्चनां चन्दनादिभिः कुर्वन्ति । अथ श्रीवीरप्रभुरहितां पृथ्वीं वीक्ष्य मोहरूपमहाचरटः सर्वत्र धर्मधनं लुण्टति स्म । तं चौरं प्रति प्राप्तज्ञानेन गणभृतेत्युक्तं- "हे मोह ! यद्यपि श्रीवीरप्रभुर्मोक्षं प्राप्तस्तथापि तत्स्थापितधर्मराज्येऽहं स्थितोऽस्मि, किं न जानासि ? अहो पापैकनिष्ठ ! अधुना
20
१. राहित्ये ।
D:\chandan/new/kalp-2/pm513rd proof