________________
10
१०२]
[दीपालिकापर्वसंग्रहः ॥ कुलेष्वन्येषु नीचेषु खरतुल्येषु भूपते ! । मर्यादानीतिधारित्वं स्नेहोऽन्योऽन्यं भविष्यति ॥१८२।। स्नेहभावो वालुकासु त्वया भूप ! विलोकितः । कृषिसेवादिकारम्भा-त्तत्फलं भावि नो धनम् ॥१८३।। अग्रे गतेन भूपेन काकं हंसैनिषेवितम् । दृष्ट्वा पृष्टैद्विजैः प्रोचे तत्फलं भाविसूचकम् ॥१८४॥ काककल्पा महीपालाः प्रायो नीचकुलोद्भवाः । हंसतुल्यैर्जनैः शुद्धैः सेविष्यन्ते कलौ युगे ॥१८५।। अन्यदा पाण्डवाः पञ्च वनवासस्थिताः क्रमात् । युधिष्ठिरेण भीमाद्या निशि रक्षाकृतः कृताः ॥१८६।। भीमस्य जाग्रतः पूर्व-यामे सुप्ते युधिष्ठिरे । बन्धुत्रययुतोऽभ्यगात् प्रेतरूपधरः कलिः ॥१८७॥ आगत्य तमुवाचाथ बन्धून् ते हन्मि पश्यतः । तदाऽऽकर्ण्य क्रुधा भीम-स्तद्वधायाभ्यधावत ॥१८८॥ विदधानो युधं भीमः क्रुधाऽरुणितलोचनः । लीलया प्रेतरूपेण कलिना बलिना जितः ॥१८९।। युद्ध्यमानो जितस्तेन द्वितीयप्रहरेऽर्जुनः । तृतीये नकुलस्तद्वत् सहदेवस्तुरीयके ॥१९०।। ततः सुप्तेषु शेषेषु निशाशेषे युधिष्ठिरः । जजागार कलिस्तस्याऽ-प्यूचे प्रेतः समुत्थितः ॥१९१।। हन्मि ते पश्यतो बन्धू-नित्याऽऽकर्ण्य सकर्णधीः । न चुकोप न चोवाच रुषा रूक्षाऽक्षरं वचः ॥१९२।। सर्वाभ्युदयजननीं सर्वसत्त्वप्रियङ्करीम् । सारां समग्रधर्मस्य क्षमामङ्गीचकार सः ॥१९३।। तस्योपशममालोक्य कलिः शान्तमनास्ततः । प्रेतरूपं व्यपास्यास्य मुष्टिमध्ये समागतः ॥१९४।। उत्थितानां स्वबन्धूनां प्रातस्तेन प्रदर्शितः । वशीभूतः कलिः प्रेतः क्षमाया अनुभावतः ।।१९५।।
15
D:\chandan/new/kalp-1/pm5\3rd proof