________________
३३२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः पथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, इत्यर्थः । वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदा अपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्द्धभुक्ते त्वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनस्य त्यागः ।
सार्द्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ।
अथ पूर्वार्द्धप्रत्याख्यानम् – “सूरे उग्गए पुरिमड्ढें पच्चक्खाइ, चउव्विहं पि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिइ"।
पूर्वं च तदर्धं च पूर्वार्द्धं दिनस्याद्यं प्रहरद्वयम् , पूर्वार्द्धं प्रत्याख्याति पूर्वार्द्धप्रत्याख्यानं करोति । षडाकाराः पूर्ववत् । ‘महत्तरागारेणं' इति, महत्तरं -प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षयाबहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लान-चैत्य-सङ्घादिप्रयोजनम् तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारस्तस्मादप्यन्यत्रेति योगः । यच्चात्रैव महत्तराकारस्याभिधानं नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते ।
अथैकाशनप्रत्याख्यानं-तत्राष्टावाकाराः । यत्सूत्रम् –
"एगासणं पच्चक्खाइ, चउव्विहं पि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिइ"।[प्रत्याख्यानावश्यके हारिभद्रीयवृत्तौ प० ८५३]
एकं सकृदशनं भोजनमेकं चाऽऽसनं पुताचालनतो यत्र तदेकाशनमेकासनं च, प्राकृते द्वयोरपि एगासणमितिरूपम् , तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः । अत्राद्यावन्त्यौ च द्वावाकारौ (च) पूर्ववत् , 'सागारियागारेणं' सह अगारेण वर्त्तते इति सागारः, स एव सागारिको -गृहस्थः, स एवाकार:-प्रत्याख्यानापवाद: सागारिकाकारस्तस्मादन्यत्र । गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसम्भवात् । अत एवोक्तम् -
"छक्कायदयावंतोऽवि, संजओ दुल्लहं कुणइ बोहिं।
आहारे नीहारे, दुगुंछिए पिंडगहणे य" ॥१॥[ओ.नि./गा.४४१] ततश्च भुञ्जानस्य यदा सागारिक: समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ
१. ज्ञाते सति-यो० टी० ॥ २. वा मु० C. ॥ ३. रौ च पू L.P.C. I रौ पू यो० टी० ॥
D:\new/d-2.pm5\3rd proof