SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 'अरिहंतचेइयाणं' सूत्रविवरणम्-श्लो० ६१॥] [२७१ श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थं पूजासत्कारौ प्रार्थयमानो न निष्फलारम्भः । तथा 'सम्माणवत्तियाए' सन्मानप्रत्ययं सन्माननिमित्तम् , सन्मान:स्तुत्यादिभिर्गुणोन्नतिकरणम् , मानसः प्रीतिविशेष इत्यन्ये । ___अथ वन्दनादय: किंनिमित्तम् ? इत्याह –'बोहिलाभवत्तियाए' बोधिलाभोऽर्हत्प्रणीतधर्मावाप्तिस्तत्प्रत्ययं तन्निमित्तम् । बोधिलाभोऽपि किंनिमित्तम् ? इत्याह –'निरुवसग्गवत्तियाए' जन्माधुपसर्गाभावेन निरुपसर्गो मोक्षस्तत्प्रत्ययं निमित्तम् । ननु साधुश्रावकयोर्बोधिलाभोऽस्त्येव, तत् किं सतस्तस्य प्रार्थनया? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव । उच्यते, क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवात् , जन्मान्तरे च तस्यार्थ्यमानत्वात् , निरुपसर्गोऽपि तद्द्वारेण प्रार्थ्यत एवेति युक्तोऽनयोरुपन्यासः । ____ अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालम् इत्याह – “सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं' 'श्रद्धा' मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी, तया श्रद्धया, न तु बलाभियोगादिना । एवं मेधया, न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेघया -मर्यादावर्तितया, नासमञ्जसत्वेन । एवं धृत्या -मन:समाधिलक्षणया न रागद्वेषाद्याकुलतया । एवं धारणया - अर्हद्गुणाविस्मरणरूपया, न तु तच्छून्यतया। एवमनुप्रेक्षया -अर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न तद्वैकल्येन । वर्द्धमानयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया, श्रद्धायां हि सत्यां मेधा, तद्भावे, धृतिः, ततो धारणा, तदन्वनुप्रेक्षा, वृद्धिरप्यासामित्थमेव । तिष्ठामि -करोमि । ननु प्राक् 'करोमि कायोत्सर्गम्'इत्युक्तम् , साम्प्रतं तिष्ठामीति किमर्थमुच्यते? सत्यम् , 'सत्सामीप्ये सद्वत्प्रत्ययो भवति' इति करोमि करिष्यामीति क्रियाभिमुख्यं पूर्वमुक्तम् , इदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्यवाहमिति । किं सर्वथा तिष्ठामि कायोत्सर्ग ? न, इत्याह –'अन्नत्थ ऊससिएणं' इत्यादि व्याख्या पूर्ववत् । अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि – १. युक्तस्तयोरुपः । C. योगशास्त्रवृत्तौ च [प० ६२०] युक्तोऽनयोरुप” इति ॥ २. वृद्धिरप्यासामेवमेव, तिष्ठामि करोमि कायोत्सर्गम् । ननु-इति योगशास्त्रवृत्तौ प० ६२१ ॥ ३. सत्सामीप्ये सद्वद्वा (सिद्धहैम०५।४।१) इति सूत्रेण इति ज्ञेयम् ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy