SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २७०] [धर्मसंग्रहः-द्वितीयोऽधिकारः अतोऽनन्तरं त्रिकालवर्तिद्रव्यार्हद्वन्दनार्थमिमां गाथां पूर्वाचार्याः पठन्ति - __ "जे य अईया सिद्धा, जे य भविस्संतणागए काले । संपइ य वट्टमाणा, सव्वे तिविहेण वंदामि" ॥१॥[शक्रस्तवे] कण्ठ्या । ननु कथं द्रव्यार्हन्तो नरकादिगतिं गता अपि भावार्हद्वद्वन्दनार्हा इति चेत् ? उच्यते, सर्वत्र तावन्नाम-स्थापना-द्रव्याऽर्हन्तो भावार्हदवस्थां हृदि व्यवस्थाप्य नमस्कार्या इति । द्रव्यार्हद्वन्दनार्थोऽयं द्वितीयोऽधिकारः । ततश्चोत्थाय स्थापनार्हद्वन्दनार्थं पादाश्रितया जिनमुद्रया हस्ताश्रितया च योगमुद्रयापि 'अरिहंतचेइआणं' इत्यादि सूत्रं पठति । अर्हतां-पूर्वोक्तस्वरूपाणां चैत्यानि – प्रतिमालक्षणानि अर्हच्चैत्यानि । चित्तमन्तःकरणं तस्य भावः कर्म वा वर्णदृढादित्वाट् ट्यण् [ श्रीसि० "वर्णदृढादिभ्यष्ट्यण वा" ७-१-५९] चैत्यं बहुविषयत्वेन चैत्यानि । तत्रार्हतां प्रतिमाः प्रशस्तसमाधिवच्चित्तोत्पादकत्वादहच्चैत्यानि भण्यन्ते, तेषां वन्दनादिप्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः । कायस्य-शरीरस्य उत्सर्गः कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्यागस्तं करोमि । 'वंदणवत्तिआए' इति, वन्दनम् -अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं कथं नाम कायोत्सर्गादेव मम वन्दनं स्याद् ? इति । वत्तियाए इत्यार्षत्वात् सिद्धम् , एवं सर्वत्र द्रष्टव्यम् । तथा पूयणवत्तियाए' पूजनप्रत्ययं पूजननिमित्तम् , पूजनं -गन्धमाल्यादिभिरभ्यर्चनम् , तथा 'सक्कारवत्तियाए' सत्कारप्रत्ययं सत्कारनिमित्तम् , सत्कारः - प्रवरवस्त्राभरणादिभिरभ्यर्चनम् । ननु च यतेः पूजनसत्कारौ अनुचितौ, द्रव्यस्तवत्वात् , श्रावकस्य तु साक्षात् पूजासत्कारकर्तुः कायोत्सर्गद्वारेण तत्प्रार्थना निष्फला । उच्यते -साधोव्यस्तवप्रतिषेधः स्वयङ्करणमधिकृत्य, न पुनः कारणाऽनुमती, यतः -"अकसिणपवत्तगाणं'[आ.नि.भा./ १९४] इत्यादि । तथा –“यस्तृणमयीमपि कुटीम्"[ ] इत्यादि । तथा - "जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि" ॥ [ उ.सा./२७] इत्युपदेशदानतः कारणसद्भावो, भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि । यदाह "सुव्वइ अ वइररिसिणा, कारवणं पि य अणुट्ठियमिमस्स । वायगगंथेसु तहा, एयगया देसणा चेव" ॥१॥[पञ्चव./१२२७] १. तुला-योगशास्त्रटीका प० ६१८ ॥ २. समाधिचित्त इति योगशास्त्रवृत्तौ प० ६१८ ।। ३. च-योगशास्त्रटीकायां नास्ति ।। ४. सुच्चइ-मु० C. । पञ्चवस्तुके-योगशास्त्रवृत्तौ च सुव्वइ-इति । 'श्रूयते च वर्षिणा...' इति पञ्चवस्तुकवृत्तौ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy