________________
स्नात्रपूजाविधिः- श्लो० ६१ ॥ ]
[ २४७
इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्यम् । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत उच्चैः सकलशजलधारं परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकरम् -
"मरगयमणिघडिअविसालथालमाणिक्कमंडिअपईवं ।
ण्हवणयरकरुक्खित्तं, भमउ जिणारत्तिअं तुम्हें" ॥१॥[ ]
इत्यादिपाठपूर्वं प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । यदुक्तं त्रिषष्टीयादिचरित्रे
'कृतकृत्य इवाथापसृत्य किञ्चित् पुरन्दरः ।
पुरोभूय जगद्भर्त्तुरारात्रिकमुपाददे ॥१॥ [ त्रि.प. १/५/९८ ] चलद्दीपत्विषा तेन, चकासामास कौशिकः ।
44
भास्वदोषधिचक्रेण, शृङ्गेणेव महागिरिः ॥२॥ [ त्रि.प.१/५/९९ ] श्रद्धालुभिः सुरवरैः, प्रकीर्णकुसुमोत्करम् ।
भर्त्तुरुत्तारयामास, ततस्त्रिदशपुङ्गवः " ॥३॥ [ त्रि.प.१/५/१०० ] मङ्गलप्रदीपोऽप्यारात्रिकवत् पूज्यते -
"कोसंबिसंठिअस्स व, पयाहिणं कुणइ मउलिअपईवो । जिणसोमदंसणे दिrयरु व्व तुह मंगलपईवो ॥ १ ॥ [ ]
भामिज्जंतो सुरसुंदरीहिं तुह नाह ! मंगलपईवो ।
कणयायलस्स नज्जइ, भाणु व्व पयाहिणं दितो" ॥२॥ [ ]
इति पाठपूर्वं तथैवोत्तार्यते, देदीप्यमानो जिनचलनाग्रे मुच्यते, आरात्रिकं तु विध्याप्यते न दोषः, प्रदीपारात्रिकादि च मुख्यवृत्त्या घृत-गुड-कर्पूरादिभिः क्रियते, विशेषफलत्वात्, लोकेऽप्युक्तम् -
"पुरः प्रज्वाल्य देवस्य, कर्पूरेण तु दीपकम् ।
अश्वमेघमवाप्नोति, कुलं चैव समुद्धरेत्" ॥१॥ []
अत्र ‘मुक्तालङ्कार’इत्यादिगाथाः श्रीहरिभद्रसूरिकृताः संभाव्यन्ते, तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ " उवणेउ मंगलं वो" इति नमस्कारदर्शनात् एताश्च गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः ।
,
स्नात्रादौ सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोहः कार्यः, अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् । गणधरादिसामाचारीष्वपि भूयांसो भेदा भवन्ति, तेन यद्यद्धर्माद्यविरुद्धमर्हद्भक्तिपोषकं तत्तन्न केषामप्यसंमतम्, एवं सर्वधर्मकृत्येष्वपि ज्ञेयम् । १. °म्ह-इति श्राद्धविधिवृत्तौ ॥ २. भास्वदौष' इति श्राद्धविधिवृत्तौ ॥ ३. नमस्कारस्य द° इति श्राद्धविधिवृत्तौ ॥
D:\new/d-2.pm5\3rd proof