________________
२३६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः २, श्रामण्यावस्था ३ च । तत्र स्नपनकारैर्जन्मावस्था १, मालाधारै राज्यावस्था २, श्रामण्यावस्था भगवतोऽपगतकेशशीर्षमुखदर्शनात् सुज्ञातैव ३। प्रातिहार्येषु परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लि: १, मालाधारैः पुष्पृष्टिः २, वीणावंशकरैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः ३, शेषाणि स्फुटान्येव इति भावपूजा ३।। अन्यरीत्याऽपि पूजात्रयं बृहद्भाष्याद्युक्तम् यथा - "पंचोवयारजुत्ता, पूआ अट्ठोवयारकलिआ य । रिद्धिविसेसेणं पुण, नेआ सव्वोवयारा वि ॥१॥ तत्थ य पंचुवयारा, कुसुम १ ऽक्खय २ गंध ३ धूव ४ दीवेहिं ५ ॥२॥ कुसुम १ क्खय २ गंध ३ पईव ४ धूव ५ नेवेज्ज ६ फल ७ जलेहिं ८ पुणो। अट्ठविहकम्मदलणी, अट्टवयारा हवइ पूआ ॥३॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसमाईहिं।
फलबलिदीवाईहिं नट्टगीआरत्तिआहिति" ॥४॥[चे.वं.म.२०९-२१२] शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति । तद्यथा
"सयमाणयणे पढमा, बीआ आणायणेण अन्नेहि।
तइआ मणसा संपाडणेण वरपुष्फमाईणं" ॥१॥[सं.प्र.देवा./१८९] इति । कायवाङ्मनोयोगितया करणकारणानुमतिभेदतया च पूजात्रिकम् । तथा – "पूअं पि पुष्फामिसथुइपडिवत्तिभेअओ चउव्विहं पि जहासत्तीए कुज्जा"[ ]
ललितविस्तरादौ तु -"पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यम्" [ ] इत्युक्तम् , तत्रामिषमशनादि भोग्य वस्तु , प्रतिपत्तिः पुनरविकलाप्तोपदेशपरिपालना इत्यागमोक्तं पूजाभेदचतष्कम । तथा - "दुविहा जिणिंदपूआ, दव्वे भावे अ तत्थ दव्वंमि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे" ॥१॥[सं.प्र.दे.१९१] इति भेदद्वय्यपि । तथा सप्तदशभेदा यथा
"ण्हवणविलेवण अंगंमि १, चक्खुजुअलं च वासपूआए २। पुण्फारुहणं ३ मालारुहणं ४ तह वन्नयारुहणं ५ ॥१॥[ ] चुण्णारुहणं जिणपुंगवाण ६ आहरणरोहणं चेव ७ ।
पुष्फगिह ८ पुष्फपगरो ९ आरत्तीमंगलपईवो १० ॥२॥[ ] १. P. | सुज्ञानैव-मु० ॥ २. इड्डि वि इति चैत्यवन्दभाष्ये ॥ ३. तहियं पंचु इति चैत्यवन्दभाष्ये श्राद्धविधिवृत्तौ च ॥
चा
D:\new/d-2.pm5\3rd proof