________________
१५०]
। [धर्मसंग्रहः-द्वितीयोऽधिकारः सामायिककर्ता द्विधा भवति, ऋद्धिमाननृद्धिकश्च । योऽसावनृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति, जिनगृहे, साध्वन्तिके, पौषधशालायाम् , स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वा आस्ते । तत्र च यदा साधुसमीपे करोति तदाऽयं विधि: - यदि कस्माच्चिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, मा भूत् तत्कृताकर्षणापकर्षणनिमित्तः सङ्क्लेशः, तदा स्वगृहेऽपि सामायिकं कृत्वा ईशोधयन् सावद्यां भाषां परिहरन् काष्ठलेष्ट्वादिना यदि कार्यं तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय॑ च गृह्णन् खेल-सिङ्घाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति । तत्सत्रं यथा - ___ "करेमि भंते ! सामाइअं सावज्जं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" त्ति ।। ____अस्यार्थः –'करेमि' । अभ्युपगच्छामि, भंते ! इति गुरोरामन्त्रणम् , हे भदन्त ! भदन्तः सुखवान् कल्याणवांश्च भवति । "भदुङ् सुखकल्याणयोः'' [धा० पा० ७२२ ] अस्यौणादिकान्तप्रत्ययान्तस्य निपातने रूपम् । आमन्त्रणं च प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बुद्ध्या प्रत्यक्षीकृतस्य भवति । गुरोश्चाभिमुखीकरणेन सर्वो धर्मः गुरुपादमूले तदभावे स्थापनासमक्षं कृतः फलवानिति दर्शितम् । यतः - "नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ।
धन्ना आवकहाए, गुरुकुलवासं न मुंचंति" ॥१॥ [विशेषा.भा./३४५९]
अथवा भवान्त भन्ते इत्यार्षत्वान्मध्यव्यञ्जनलोपे रूपम् , भन्ते इति “अत एत्सौ पुंसि मागध्याम्' [ श्रीसि० ८-४-२८७] इत्येकारः, अर्द्धमागधत्वादार्षस्य । 'सामायिकम्' उक्तनिर्वचनम् , आत्मानं समभावपरिणतं करोमीत्यर्थः । कथम् ? इत्याह –'सावा' अवद्यसहितं युज्यत इति योगो व्यापारस्तं 'प्रत्याख्यामि' प्रतीति प्रतिषेधे, आङाभिमुख्ये, "ख्या प्रकथने" [ है० धा० पा० १०७१] ततश्च प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य
१. निमित्तसंक्लेश:-C. । निमित्तश्चित्तसंक्लेशः-इति योगशास्त्रवृत्तौ ।। २. प्रत्युपेक्ष्य-इति योगशास्त्रवृत्तौ । प्रत्यपेक्ष्य-इति तत्र पाठान्तरम् ।। ३. करोमि-मु० | P.C. योगशास्त्रवृत्तावपि करेमिइति ।। ४. भन्दते-इति योगशास्त्रवृत्तौ प० ४७९ ॥ ५. भदु-मु० ॥ ६. "उणादौ 'सीमन्तहेमन्त०' [उ० सू० २२२] इति अन्ते निपातनात् भदन्तः" इति धातुपारायणे पृ० ९१ ।। ७. तुलाआवश्यकहारिभद्रीयवृत्तिः प० B४५५ ।।
D:\new/d-1.pm53rd proof