SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रथमशिक्षाव्रतस्वरूपम् - श्लो० ३७॥ ] तत्राद्यं शिक्षापदव्रतमाह - [ १४९ सावद्यकर्ममुक्तस्य, दुर्ध्यानरहितस्य च । समभावो मुहूर्त्तं तद् व्रतं सामायिकाह्वयम् ॥३७॥ सावद्यं-वाचिकं कायिकं च कर्म तेन मुक्तस्य, तथा दुर्ध्यानम् - आर्त्त - रौद्ररूपं तेन रहितस्य प्राणिनः मनोवाक्कायचेष्टापरिहारं विना सामायिकं न भवतीति विशेषणद्वयम् तादृशस्य ‘मुहूर्त्तं' घटीद्वयकालं यावत् यो 'समभावो' रागद्वेषहेतुषु मध्यस्थभावस्तत् ‘सामायिकाह्वयं' व्रतं ज्ञेयम् । समस्य-रागद्वेषविमुक्तस्य सत आयो - ज्ञानादीनां लाभः प्रशमसुखरूपः, समानां वा - मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शनज्ञानचारित्राणाम् आयो लाभः समायः, समाय एव सामायिकम्, विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा सामायिकम् । यतः - I "जो समो सव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइअं होइ, इह केवलिभासिअं" ॥१॥ [ आ.नि./७९८ ] सामायिकस्थश्च श्रावकोऽपि यतिरिव । यदाह"सामाइयंमि उकए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइअं कुज्जा ॥१॥ [ आव. मूल. अ. ६/गा. २०, आ.नि. ८०१, वि. भा. २६९० ] अत एव तस्य देवपूजनादौ नाधिकारः, यतो भावस्तवार्थं द्रव्यस्तवोपादानम्, सामायिके च सति सम्प्राप्तो भावस्तव इति किं द्रव्यस्तवकरणेन ? | यदाह - - " दव्वथओ भावथओ, दव्वथओ बहुगुणो त्ति बुद्धि सिआ । अणिउणजणवयणमिणं, छज्जीवहिअं जिणा बिंति " ॥ १ ॥ [ आ.भा. / १९२] आवश्यकसूत्रमपि "सामाइअं नाम सावज्जजोगपरिवज्जणं णिरवज्जजोगपडिसेवणं च'' त्ति । [ प्रत्याख्यानावश्यक सू० ९ । आवश्यकचूर्णिः प० २९९, हारिभद्रीयवृत्तिः प० ८३१ ] तेत्रायमावश्यकचूर्णिपञ्चाशकचूर्णियोगशास्त्रवृत्त्याद्युक्तो विधिर्यथा – श्रावकः १. L.P.C. I योऽसौ सम मु० ॥ २. तुला - योगशास्त्रवृत्ति: ३ / ८२ प० ४७७-४८३ । ३. देवस्नात्रपूजनादौ -इति योगशास्त्रवृत्तौ ॥ ४. दव्वथओ - L. P. C. नास्ति ॥ ५. दृश्यताम् - आवश्यकचूर्णिः प० २९९-३००, आवश्यकहारिभद्रीयवृत्तिः प० ८३२, पञ्चाशकचूर्णिः १ । गा० २५- ६, योगशास्त्रवृत्तिः प० ४७८ तः ।। " विनयादिभ्यः " सिद्धहेम० ७-२- १६९ इति सूत्रेण ॥ D:\new/d-1.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy