SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ २२ अभक्ष्यस्वरूपम् - श्लो० ३२-३४ ॥ ] 'वासासु पनरदिवसं, सिउण्हकालेसु मास दिणवीसं । उग्गाहिमं जईणं, कप्पई आरब्भ पढमदिणा " ॥१॥[] 44 केचित्त्वस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद् गन्धरसादिना न विनश्यति तावदवगाहिमं शुध्यतीत्याहुः | दिनद्वयातीते दध्न्यपि जीवसंसक्तिर्यथा - — 44 'जड़ मुग्गमासमाई, विदलं कच्चंमि गोरसे पड्ड् । ता तसजीवुप्पत्ति, भांति दहिए वि दुदिणुवरिं" ॥१॥[ ] [ १३५ हारिभद्रदशवैकालिकवृत्तावपि - " रसजास्तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति [ द.वृ. ४ / १ / प० १४१ ] इति" " दध्यहर्द्वितयातीतम् " [ योगशास्त्रे ३/७ ] इति हैममपि वचः २०। तथा तुच्छम् –असारं, पुष्पं च फलं च ते आदी यस्य तत् पुष्प- फलादि, 'चः' समुच्चये, आदिशब्दान्मूल-पत्रादिपरिग्रहः । तत्र तुच्छं पुष्पम् – अरणि- करीर - शिग्रूमधूकादिसम्बन्धि । तुच्छं फलं - मधूक - जम्बू-टिम्बरू-पीलू-पक्वकरमदेङ्गुदीफलपिञ्च-मकुर-वालुउलि-बृहद्वदर-कच्च-कुठिम्भड - खसखसादि । प्रावृषि तन्दुलीयकादेश्च पत्रं बहुजीवसम्मिश्रुत्वात् त्याज्यम्, अन्यदप्येतादृशं मूलादि । यद्वाऽर्द्धनिष्पन्नकोमलचवलकुमुद्गसि (शि) म्बादिकम्, तद्भक्षणे हि न तथाविध ( धा) तृप्ति - विराधना च भूयसी २१ । तथा आमेति, आमं च तत् गोरसं च आमगोरसं तत्र सम्पृक्तम् आमगोरससम्पृक्तम्, कच्चदुग्धदधितक्रसंमिलितं द्विदलम् केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात् हेयम् । उक्तं च संसक्तनिर्युक्त्यादौ - "सव्वेसु वि देसेसु, सव्वेसु वि चेव तह य कालेसुं । कुसिणेसु आमगोरसजुत्तेसु निगोअपंचिंदी" ॥१॥ [सं.प्र.श्रा./८४] द्विदललक्षणं त्वेवमाहुः - "जंमि उ पोलिज्जंते, नेहो न हु होइ बिंति तं विदलं । विदले वि हु उप्पन्नं, नेहजुअं होइ नो विदलं " ॥१॥ [ सं.प्र.श्रा./८५ ] इह हीयं स्थितिः –केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्याः । तत्र ये यथा १. °णे-L.P. ॥ २. “पिचू' P.L. ॥ ३. शिम्बादिकम् - इति प्रवचनसारोद्धारवृत्तौ प० १५४ । सिङ्गादिकं-इति श्राद्धप्रतिक्रमणवृत्तौ प० ११८ ॥ ४ तथाविधा - इति प्रवचनसारोद्धारवृत्तौ प० १५४, श्राद्धप्रतिक्रमणवृत्तौ प० ११८ ॥ ५. L. P. | 'तक्रमिलितं मु० C. ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy