________________
१३४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः वानन्तकायिकानि, किन्त्वन्येऽपि । तथाह –'अन्यदपि' पूर्वोक्तातिरिक्तमनन्तकायिकं 'लक्षणयुक्त्या' वक्ष्यमाणक्षणविचारणया 'समयात्' सिद्धान्ततः, तान्येवनन्तकायानि यथा -
"घोसाडकरीरंकुरु, तिंडुअअइकोमलंबगाईणि।
वरुणवडनिंबयाईण, अंकुराइं अणंताई" ॥१॥[प्र.सा.गा./२४१] घोषातकी-करीरयोरङ्कुरास्तथाऽतिकोमलान्यबद्धास्थिकानि तिन्दुकाम्रफलादीनि । तथा वरुण-वटनिम्बादीनामङ्करा अनन्तकायिकाः । अनन्तकायलक्षणं चेदम् – "गूढसिरसंधिपव्वं, समभंगमहीर रु )गं च छिन्नरुहं ।
साहारणं सरीरं, तव्ववरीअं च पत्तेअं" ॥१॥ [ जीवा.सू.,जीव.प्र.गा./१२] एवंलक्षणयुक्ता अन्येऽपि अनन्तकायाः स्युस्ते हेयाः । यतः - "चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् ।
परस्त्रीसङ्गमश्चैव, सन्धानानन्तकायिके" ॥१॥[]
अनन्तकायिकमन्यदप्यभक्ष्यं चाचित्तीभूतमपि परिहार्यम् , निःशूकतालौल्यवृद्ध्यादिदोषसम्भवात् , परम्परया सचित्ततद्ग्रहणप्रसङ्गाच्च । यथोक्तम् -
"इक्केण कयमकज्जं, करेड तप्पच्चया पणो अन्नो। सायाबहुलपरंपरवुच्छेओ संजमतवाणं" ॥१॥ [ प.व./गा.५९१]
"अत एवोत्कालितसेल्लरकराद्धार्द्रकसूरणवृन्ताकादि प्रासुकमपि सर्वं वय॑म् , मूलकस्तु पञ्चाङ्गोऽपि त्याज्यः, सुण्ठ्यादि तु नामस्वादभेदादिना कल्पते" । इति श्राद्धविधिवृत्तौ [ प० ४२ A] १८।
तथा 'वृन्ताकं" निद्राबाहुल्यमदनोद्दीपनादिदोषपोषकत्वात् त्याज्यम् । पठन्ति च परेऽपि - “यस्तु वृन्ताककालिङ्गमूलकानां च भक्षकः ।
अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये !" ॥ [ शिवपुराणे ] इति १९। तथा चलितो -विनष्टो रसः -स्वाद उपलक्षणत्वाद्वर्णादिर्यस्य तच्चलितरसम् , कुथितान्नपर्युषितद्विदलपूपिकादिकेवलजलराद्धकूराद्यनेकजन्तुसंसक्तत्वात् , पुष्पितौदनपक्वान्नादि दिनद्वयातीतदध्याद्यपि च । तत्र -पक्वान्नाद्याश्रित्य चैवमुक्तम् -
१. वरुणब(व)ड मु० ॥ २. तुला-प्रवचनसारोद्धारवृत्तिः प० १५४, श्राद्धविधिप्रतिक्रमणवृत्तिः प० ११८ ॥ ३. तुला-श्राद्धविधिवृत्तिः प० ४१ ॥
D:\new/d-1.pm53rd proof