________________
७२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः प्रतिपत्तव्यम् । तस्यानन्दादिश्रावकोपदर्शितविधिनैव प्रतिपत्त्यौचित्यात् । तथाचोक्तमावश्यकनियुक्तौ - ___ "तत्थ समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपज्जइ । नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गहिअरिहंतचेइयाई वा वंदित्तए वा णमंसित्तए वा, पुद्वि अणालित्तएणं आलवित्तए वा संलवित्तए वा । तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, णण्णत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं" [आवश्यकसूत्रे ६/३६ हारिभद्रीयवृत्तिः पृ. ८११ ] ति ।
योगशास्त्रवृत्तावपि – “एवंविधं च सम्यक्त्वं विशिष्टद्रव्यादिसामग्रयां सत्यां गुरोः समीपे विधिना प्रतिपद्य श्रावको यथावत् पालयति" [यो.शा.वृ २/१७] यतः"समणोवासओ तत्थ, मिच्छत्ताउ पडिक्कमे । दव्वओ भावओ पुट्वि, सम्मत्तं पडिवज्जए ॥१॥ [ मूल.प्र.४, यो.शा.२/१७ ] न कप्पई से परतित्थिआणं, तहेव तेसिं चिअ देवयाणं । परिग्गहेताण य चेइआणं, पहावणावंदणपूअणाई ॥२॥ [ मूल.प्र.५, यो.शा.२/१७] लोआण तित्थेसु सिणाणदाणं, पिंडप्पदाणं हुणणं तवं च । संकंतिसोमग्गहणाइएसु,पभूअलोआणपवाहकिच्चं"॥३॥[ मूल.प्र.६,यो.शा.२/१७] ति ।
इत्थं च सम्यक्त्वाणुव्रतादिप्रतिपत्तिः सर्वाऽपि गुरुसाक्षिकैव फलवती, नान्यथा । यतः पञ्चाशके वधवजनविधिप्रस्तावे -
"गुरुमूले सुअधम्मो, संविग्गो इत्तरं च इअरं वा ।
गिण्हइ वयाइँ कोई, पालेइ तहा निरइआरं" ॥१॥[पञ्चा.१/९] वृत्तिर्यथा –गुरुः सम्यग्ज्ञानक्रियायुक्तः सम्यग् धर्मशास्त्रार्थदेशकः । यदाह -
"धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः।
सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते" ॥१॥[] अथवा-"जो जेण सुद्धधम्मे, निजोजिओ संजएण गिहिणा वा ।
सो चेव तस्स भण्णइ, धम्मगुरू धम्मदाणाओ" ॥१॥[] १. प्रतिपत्तव्यौचित्यात्-मु० C.P. मूल । प्रतिपत्त्यौचित्यात्-LP संशो० ॥ २. वंदेत्तए-मु० ॥ ३. अणालित्तेणं-मु० ॥ ४. बलाभिओगेणं-मु० नास्ति । P.C. आवश्यकसूत्रे अस्ति । बलाभि० ॥ ५. परिग्गहीताण-मु० ॥ ६. उत्तरं व-L | इत्तरं व-P संशो० । इत्तरं च-P मूल ।।
D:\new/d-1.pm5\3rd proof