SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वभेदाः-श्लो० २२॥] [७१ तथा जिनभद्र-सिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात् तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थं 'जानतोऽपि' इति शास्त्रतात्पर्यबाधप्रतिसन्धानवत इत्यर्थः, सिद्धसेनादयश्च स्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसन्धायापि पक्षपातेन न न प्रतिपन्नवन्तः । किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धायेति न तेऽभिनिवेशिनो । गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसन्धायैवान्यथा श्रद्दधत इति न दोषः । इदमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधम् , जमालि-गोष्ठामाहिलादीनाम् । उक्तं च व्यवहारभाष्ये - "मइभेएण जमाली, पुव्वि वुग्गाहिएण गोविंदो । संसग्गीए भिक्खू , गोट्ठामाहिल अहिणिवेसे" ॥१॥[व्य.भा./२७१४] त्ति ३।] सांशयिकं देव-गुरु-धर्मेष्वयमन्यो वेति संशयानस्य भवति । [सूक्ष्मार्थादिविषयस्तु संशयः साधूनामपि भवति, स च "तमेव सच्चं णीसंकं, जंजिणेहिं पवेइअं"[भगवतीसूत्रे ] इत्याद्यागमोदितभगवद्वचनप्रामाण्यपुरस्कारेण निवर्त्तते । स्वरसवाहितया अनिवर्तमानश्च स: सांशयिकमिथ्यात्वरूपः सन्ननाचारापादक एव । अत एवाकाङ्क्षामोहोदयादाकर्षप्रसिद्धिः । इदमपि सर्वदर्शनजैनदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् ।] अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य भवति । इदमपि सर्वांशविषयाव्यक्तबोधस्वरूपं विवक्षितकिञ्चिदंशाव्यक्तबोधस्वरूपं चेत्यनेकविधम् । [एतेषु मध्ये आभिग्राहिकाऽऽभिनिवेशिके गुरुके, विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् । शेषाणि च त्रीणि (न) विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेन तेषां क्रूरानुबन्धफलकत्वाभावात् । तदुक्तं चोपदेशपदे - "एसो अ एत्थ गुरुओ, णाणज्झवसायसंसया एवं । जम्हा असप्पवित्ती, एत्तो सव्वत्थणत्थफला" ॥१॥[ उप.प./गा.१९८] दुष्प्रतीकाराऽसत्प्रवृत्तिहेतुत्वेन एष विपर्यासोऽत्र गरीयान् दोषः । न त्वनध्यवसायसंशयावेवम्भूतातत्त्वाभिनिवेशाभावात् । तयोः सुप्रतीकारत्वेनात्यन्तानर्थसम्पादकत्वाभावादित्येतत्तात्पर्यार्थः] एवं सर्वथा सर्वप्रकारमिथ्यात्वपरिहारेण सम्यक्त्वं गुरुसमक्षमालापकोच्चारपूर्वं १. इत्यर्थः-मु० नास्ति ॥ २. त्रीणि वि० L.P.C. | ३. भावात् उक्तं चो० P || ४. PCL दोषोमु० नास्ति ॥ ५. एवं च स L || D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy