SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूराभिधानः किल संदधानो निजं कुलं दीपयति स्म दीप्रः ॥ १६ ॥ तदीयवंशप्रथनाय जातः क्षेमाभिधानः खलु पुत्ररत्नम् । यदीयधर्म (र्मा) समर्थतायाः श्लाघां तनोति स्म गुरुः सुराणाम् ॥ १७ ॥ तद्वंशभालमुकुटोपमपुत्रभावं प्राप्तः परं सुकृतसंततिसंग्रहाद्यः । यो राजसागर गुरोर्मुखतः प्रपेदे धर्मप्रबोधमतुलं जयताभिधानः ॥ १८ ॥ तस्यान्वयेऽजनि सुतोऽभयचंद्रनामा पुत्रैश्वतुर्भिरभितः परिशोभमानः । जूठा- कपूर- जसराज - सुमेघजीति सन्नामभिः प्रथितकीर्तिभिरतश्रीः ॥ १९ ॥ सभ्येन झूठा सुतजीवनेन सन्यायमार्गाप्तपवित्रलक्ष्म्या | युग्माधिकाविंशतियुग्मसंख्याः कारापिताः स्वाकृतयो जिनानाम् ॥ २० ॥ सत्संगतिप्रीतिधरो समृद्धो (द्धः) कर्पूरनामा वणिजां वरेण्यः । पुत्रस्तदीयो सियवंतसंज्ञः संवा (रा) जमानः सुकृतप्रभावैः ॥ २१ ॥ "Aho Shrut Gyanam" [ १५
SR No.009683
Book TitleRadhanpur Pratima Lekh Sanodha
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages366
LanguageHindi
ClassificationBook_Devnagari & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy