SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः । तारतम्यरहितं वा अष्टाङ्गयोगवैशिट्यात् सर्वोत्कृष्टगुणविशिष्ट शिवं मा नात्कृत्य निःश्रेयममाघीयत इत्यर्थः ॥ १४२ ॥ अथ शिववीक्षणादेव मोक्षो भवतीत्याख्याति । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःख स्यान्तो भविष्यति ॥ तमेव विदित्वातिमृत्युमति इत्यादि च ॥ ___ अविज्ञायेत्य स्याग्रे वर्तमानपुरुषस्येत्वध्याहार्यमन्यथैककर्तकवाभावात् त्वाप्रत्ययस्यासम्भवः स्यात् । दुःखस्यान्त इति मोक्षः । तमेवेति शिवम् । अति मृत्युमिति । अतिक्रान्तो मृत्यर्यत्र सोऽति. मृत्युर्मोक्षस्तम् । शिवदर्शनादेव मोक्ष इत्यत्र तमव विदित्वेत्यादिरागमः प्रमाण मुक्तम् । शेषं स्पष्टम् । अयं भावः । यथाकाशस्य चर्मवद्देष्टनं दुर्घटम् । तथा शिव. मविज्ञाय मानवानां मोक्षोऽपि दुर्घट इति । अत्र व्योमदृष्टान्ती व्यतिरेकेण विज्ञेयः । ___ ननु शिवदर्शनादेव मुक्तिश्चेतर्हि तप:क्लेशादिसहनं व्यर्थमिति चेन्न । तप:क्लेशादीनां पापक्षयहेतुत्वात् । क्षीणपाप्मनां च शिवदर्शनात् ॥ १४३ ॥ उपसंहरति । तस्माच्छिवदर्शनादेव मोक्ष इति ॥ -- -------- .. --------...... ... .. . ... ... .. ... - ...-... -- --..-.. * The reading "ÍTHz pier' is mentioned in the fint notu wi Page 39. ३६ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy