SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः । श्रनित्ये नित्यबुद्धिर्या याशुचौ शुचिवासना । अनात्मन्यात्मधी येयमविद्योक्ता शरीरिणामिति ॥ ८४ ॥ तृष्णां लचयति । पुनर्भवप्रार्थनं तृष्णेति ॥ पुनर्नवो विशिष्टदेहभोगादिस्तकार्थना पुनः पुनर्याचा तृष्णा भवति ॥ ८५ ॥ धर्माधर्मावाह | २५३ सुखदुःखयोरसाधारणी हेतु धमाधम्माविति # सुखदुःखे प्रतोते । तयोरसाधारणवसामान्यौ यो हेतू तौ धर्माधर्मौ भवतः । सुखहेतुर्द्धर्मः दुःखहेतुरधम्मं इत्यर्थः ॥ ८६ ॥ तृतीयं प्रमेयं प्ररूपयति । हानं दुःख विच्छेदः । श्रात्यन्तिकमिति न कदाचित्कथञ्चिहुःखसम्बन्ध इत्यर्थ द्वाँत ॥ हानमित्येतस्य दुःखविच्छेद इति व्याख्या । आत्यन्तिकमिति पदस्य न कदाचिदित्यादि व्याख्या | आत्यन्तिकपदेन कादाचित्कसुखजनितो दुःखोच्छेदो व्यवच्छिद्यते ॥ ८७ ॥ चतुर्थं प्रमेवमाह । तस्योपायस्तत्त्वज्ञानमानविषयमिति ॥ तस्यात्यन्तिकदुःखानस्यात्मविषयं क्षेत्रज्ञसम्बन्धि तत्वज्ञानमुपायो हेतुर्भवति । तत्वज्ञानमित्युक्ते यस्य वस्तुनो यो भावस्तत्तस्य तत्खमिति वचनात् सामान्यवस्तुतत्त्वज्ञानमपि तदुपायः Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy