SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८२ न्यायतात्पर्य दीपिका। *तवेदमुच्यते । सर्वथाविशेषे प्रत्यक्षविरोधः । अनित्यत्वेना. विशेष त्वनुमानविरोधः । केनचिदविशेषे प्रमयत्वादिना सिद्धसाधनमिति ॥ भो जातिवादिन् यस्त्वयास्मडेतोरविशेष: समापाद्यते स किं सर्वथा उतानित्यत्वेन आहोस्वित् केनचिद्धर्मेण । तत्राद्ये कल्ये प्रत्यक्षप्रमाणविरोधः। प्रत्यक्षेण घटपटादीनां भेदोपलम्भात् । द्वितीय कल्येऽनुमान विरोधम्तेनात्मादीनां नित्यत्वेन बुयादीनामनित्यत्वेन च साधितत्वात् । तथा ह्यान्मादिनित्यो अनादिनिधनत्वाहातिरेक घटादिवत् । हतीये कल्पे प्रमेयत्वादिना यद्यविशेषः ज्ञाध्यते। तहि सिकस्यैव साधनम् । प्रमेयत्वेनादिशब्दात् सत्त्वसपक्षत्वादिना च सर्वाविशेषस्यष्टत्वात् ॥ १८७ ॥ उपलब्धिसमामाह। निर्दिष्ट कारणाभावेऽप्युपन्लम्भादुपलब्धिसम इति ॥ निर्दिष्टस्य साध्यधम्ममिडिकारणरूपस्याभावेऽपि साध्यधर्मोपलब्धपा प्रत्यवस्थानमुपलब्धिसमा जातिभवति ॥ १८८ ॥ एतदेव सूत्रं व्याचष्टे । पृथिव्यादिषु कार्य त्वसिद्धये निर्दिष्टस्य मावयवत्वस्याभावेऽपि बुद्धवादी कार्यत्वमुपलश्चमिति ॥ __ * ''ie 'Test needs अनुमानागमविरोधः insteariot अनुमानविरोभा ( ce sage 1. Linc 8 ). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy