SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १७७ *प्राप्तप्राप्त विशेषेऽपि प्रतिनियतार्थतत्तय एवैत साध्यसाधन त्वादयो धम्मा दृष्टास्ते निराकर्त्तमशक्या: । सर्वप्रमाणविरोधादिति यद्यपि के चन हेतवः प्राप्य साधका: केचिदप्राप्य तथाप्यमी साध्यसाधनत्वादयो वह्निमत्त्वधूमवत्त्वादयो धर्मा: प्रतिनियतार्थवृत्तयो निश्चितस्वाश्रयव्यापारा दृष्टा यथा धूमवत्त्व सत्येव वह्निमत्त्वं कृतकत्वे सत्सवानित्यत्वं वा ते च ताक्षाः प्रतिक्षप्तुं न क्षम्यन्ते । सर्वेषां प्रत्यक्षादिप्रमाणानां विरोधात्। प्रत्यक्षादिप्रमाणेहि हेतुः कोऽपि माध्यं प्राप्य कोऽप्यप्राप्य साधको दृष्टः। ततो योकान्तोऽभ्युपगम्यते तदा प्रत्यक्षादिविरोधी भवत्येव । दृष्टापलापश्च । किं चायं प्रतिषेधो हेतुं प्राप्याप्राप्य वा प्रतिषेधयति । यदि प्राप्य तर्हि इयोरे कीभूतयोः किं कस्य प्रतिषेध्यं प्रतिषेधकञ्च स्यादविशिष्टत्वात् । अथाप्राप्य तहि अप्राप्यसाधको नास्तीति कथमयं प्रतिषेधस्तावको भवति ॥ १७५ ॥ अनुत्पत्तिसमां लक्षयति । प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसम इति ॥ शब्दस्योत्यत्तेः प्रागनित्यत्वे कारणाभावात् तस्य चोत्पत्त्ययोगादनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिभवति ॥ १७६ । अस्येव सूत्रस्य सोदाहरण विवरणमाह । * 'The text reaks "प्राप्तसमातिविशेषेपि' (See nagc 20. Lines). २३ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy