SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । साधनेन तत्त्वं प्रतिपद्यते तावद्दतव्यम् । नाधिकमप्रतिद्वन्द्वि त्वात् ॥ १३८ ॥ स वादः कश्चिदप्रतिपक्षोऽपि भवतीत्यत्रापि सूत्रक्वसम्मति दर्शयति । तं प्रतिपक्ष होनमपि वा कुय्यात् प्रयोजनार्थित्वेनेति ॥ अत्र प्रतिपक्षशब्देन प्रतिपक्षविषयं साधनमुच्यते उपचारात् । तेन रहितमपि तमिति वादं विदध्यात्। अभ्यर्थात्तेन सहित - मपि वा । केनेत्याह । प्रयोजनेत्यादि तत्त्वबुभुत्सापरतये त्यर्थः १४० ॥ अस्यैव सूत्रस्य तात्पर्थमाह । यथा शिष्यो गुरुणा सह प्रश्नद्वारेणैवेत्यर्थः इति अत्र वादं विधत्ते न तु प्रतिपक्षसाधनमभिधत्त इति वाक्य शेषः ॥ १४१ ॥ अथ विजिगीषुकथां लचयति । १५७ " यत्र तु विजिगीषुः विजिगीषुणा सह लाभपूजाख्यातिकामो जयपराजयार्थं प्रवर्त्तते सा विजिगीषुकथा । वीतरागो वा परानुग्रहार्थं ज्ञानाङ्करसंरक्षणार्थञ्च प्रवर्त्तत । सा चतुरङ्गा वादिप्रतिवादि- सभापति- प्राश्निकाङ्गा । विजिगीषुकथा जल्पवितण्डासंनोक्तेति ॥ Aho ! Shrutgyanam यत्र विजिगीषुर्वीतरागो वा विजिगीषुणा सह जयपराजयाद्यर्थं प्रवर्त्तते सा पुरुषशक्तिपरीक्षणफला विजिगीषुकथा भवतीति संटङ्गः । लाभेत्यादि । लाभ द्रव्यादिप्राप्तिः । पूजा
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy