SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । २२३ प्रमाविषयत्वात् सैव प्रमेयं भवति । तहदेषामप्युभयव्यवहारविषयत्वमिति ॥ ७० ॥ इत्यं विरुद्धभेदानष्टौ स्पष्टीकत्य संप्रत्यनै कान्तिकमैदानाह । अनैकान्तिकभेदास्त्विति । पक्षत्रयव्यापको यथानित्यः शब्दः प्रमेयत्वादिति। तु शब्दो विरुद्धादनकान्तिकभेदार्थः । अनैकान्तिकभेदा उच्यन्ते इति वाक्यशेषः । प्रमेयत्वं पक्षे विपक्षे सपक्षे चास्तीति पक्षवयव्यापकत्वम् ॥ ७१ ॥ द्वितीयं भेदं भणति। पक्षव्यापकः सपक्षविपक्षकदेशत्तिर्यथानित्यः शब्दः प्रत्यक्षवादिति ॥ अत्र प्रत्यक्षत्वमस्मदादीन्द्रियग्रहणयोग्यत्वं विवक्षितमन्यथा योगिप्रत्यक्षत्वेन पक्षत्रयौव्याप्तप्रायत्तेः। तत्पक्षे सर्वत्राप्यस्ति श्रवणग्राह्यत्वात् । सपने घटादी प्रत्यक्षत्वमस्ति न हाणुकादौ विषक्षे सामान्यादावस्ति न व्योमादाविति सपक्षविपक्ष कदेशवृत्तिलम् ॥ ७२ ॥ तृतीयं भेदमभिधत्ते । पक्षसपक्षव्यापको विपक्षकदेशत्तियथा गौरयं विषाणिवादिति ॥ विषाणिन एवार्थस्य पक्षीकतत्वात्य विधाणित्वम् । सपने च गोवर्गे मनास्ति नर्सकस्थापि विषाणोत्यत्तियोग्यत्वात् ; Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy