SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० अष्टादश द्रव्यपर्यायनययो:, प्रमाणीकृतयुष्मयोः । स्थितो भूपसभे वादी, जल्पन्नाप्नोति वैजयम् ॥७॥ ____ अव०-अप्रमाणं प्रमाणं क्रियध्वे स्म इति प्रमाणीकृताः, प्रमाणीकृता यूयं याभ्यां तयोः । द्रव्यपर्यायनयौ हि यथा युष्मदुपदिष्टं सर्वार्थेष्वविसंवादितया प्रवर्त्तमानौ युष्माकं प्रामाण्यं व्यवस्थापयतः । वक्तुः प्रामाण्य एव वचनप्रामाण्यनियमात्। भूपसभं राजवर्जिते' (लिङ्गानु०)ति क्लीवत्वं वै निश्चये। युष्मदुपज्ञद्रव्यपर्यायनयवादिनो जयस्यैकान्तिकत्वात् ॥ ७ ॥ युष्मच्छब्दबहुत्वाऽन्यपदद्वित्वोक्तिभिः स्तुताः एवं। श्रीज्ञानसागरत्वं देयासुः सर्वसार्वा मे ॥८॥ इतियुष्मच्छद्रबहुवचनबहुव्रीहिद्विवचनप्रयोगमयः साधा रणजिनस्तवः एष वा षष्ठः । इति द्वितीयषष्ठस्तवावचूरिः ॥६॥ अथ श्रीनेमिस्तवः रैवताचलश्रृङ्गारं, भृङ्गारं ज्ञानवारिणः । श्यामलच्छायमिच्छामि, श्रीनेमि स्तोतुमादरात् ॥१॥ शिष्यीभूयानुयूयं ये, भव्यास्ते नात्र संशयः । सम्यग्दृक्त्वादभित्वांश्च, भजन्ति त्रिदशा विशः।२। अव०-वामनुगताः. अनुलोमादिष्विव 'प्रात्यवपरि०' ३३११४७। इति द्वितीयातत्पुरुषः पूर्वपदप्रधानः । अत्र युष्मद "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy