SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्तोत्री द्रव्यभावतमोरुद्ध-दृष्टेर्दिष्टया मम प्रभो ! । सूर्येन्द्वोरुदयो भूयात् , स्वविभादर्शितत्वयोः ।५। अव०-द्रव्यभावौ बाह्यान्तरे ये तमसी, ताभ्यां रुद्धा दृष्टिनयनं ज्ञानं च यस्येत्यस्य मम, दिटयेत्यव्ययं सम्मदे । उदयाशिषि हेतुरूपं विशेषणमाह-स्व०स्व विभया दर्शितस्त्वं याभ्यां सूर्येन्दुभ्यां तयोः । इदंतत्वात् 'लघ्वार० ३१११६०॥ इति इन्दुशब्दस्य प्राग्निपाते प्राप्तेपि धर्मार्थादित्वात् सूर्यशब्दस्य प्राग्निपातोऽभूत् ॥ ५॥ जन्मस्नात्रमहानन्द-पदलाभार्हितत्वयोः । अष्टापदादयोः केषां न, सतां निविशते मनः।६ इति युष्मदेकवचनबहुव्रीहिद्विवचनप्रयोगसुभगः श्रीऋषस्तवस्तुरीयः अव०-जन्मस्नात्रं महानन्दपदलाभश्च, ताभ्यां करणभूताभ्य अहिंतः-पूजितः त्वं ययोराधारभूतयोः तौ तयोः, अष्टापदस्य स्वर्णस्य अद्रिमरुः अष्टापदश्चासौ अद्रिश्च कैलासः द्वन्द्वे ' स्यादावसख्येयः' ३३११११९ । इति एकशेषः, तयोः, नि०-'निविशः ' ३।३।२४। इत्यात्मनेपदम् ।। ६ ॥ युष्मत्पदैकवचनान्यपदद्विवचनवचोविरचनेन । स्तुत इति मया प्रदेयाः प्रवचनचातुर्यमाद्याहन ॥ ७ ॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy