SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १२ अष्टादश • अव० - श्रुतस्त्वं याभ्यां ते श्रु० । अत्र बहुव्रीहिद्वित्वेऽपि युष्मच्छद्रस्यैकत्वे वर्त्तनात् न युवादेशः । दृष्टस्त्वं याभ्यां, इ० । चर्चण् अध्ययने 'भीपि भृषि' ५।३।१०९ । इत्यङि चर्चा - अङ्गसंस्क्रिया, चर्चिक्यं समालभनं चर्चा ( अभिधान० श्लो० ६३६ ) इतिवचनात् तां कुरुतः णिजि चर्चयतः कर्मणि चच्र्यसे स्म इति चर्चितः, चर्चितस्त्वं याभ्यां ताभ्याम् ||२|| अभितः कृपाणधाराप्रतिफलनवरात्रि - रूपितत्वाभ्याम् | त्वद्भक्त्या धरणेन्द्रो नमिविनमिभ्यामदाद विद्याः ॥ ३ ॥ अव० - अभित उभयत इत्यर्थः, कृपाणधाराया प्रतिफल - नस्य - प्रतिविम्बनस्य वशेन त्रिरूपः क्रियसे णिजि त्रिरूप्यसे स्म क्ते त्रिरूपितः, त्रिरूपितस्त्वं याभ्यां ताभ्यां कर्माभिप्रेयत्वात् सम्प्रदानत्वे चतुर्थी ॥ ३ ॥ जटाभ्यां शोभितस्वर्णवर्ण-त्वाभ्यां तवांसयोः । श्रीमेरोः पार्श्वयोनींल-वनालीभ्यामिवाऽभवत् |४| अव० -- शुभधातोर्णिगि कर्मणि क्ते शोभितस्वर्णवर्णस्त्वं याभ्यां ताभ्यां जटाभ्यामिति जटे आश्रित्य ' गम्य यपः कर्माधारे ' २२|७४ | इति पञ्चमी ॥ ४ ॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy