SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ७८ साधारणजिनस्तवः अव्याहतैस्तव महोभिरिमानि पूर्व मुद्योतिभिर्यदि हि जर्जरितानि न स्युः ॥३०॥ बाह्येषु चान्तरगतेषु च विष्टपस्य, युष्मन्मुखेन्दुलितेषु तमस्सु नाथ !। एतौ जगत्युदयतो यदि पुष्पदन्तौ, तन्नूनमान्तरतमःक्षयशिक्षणार्थम् ॥३१॥ स्वामिन् ! प्रभावविभवैर्भुवने भृते ते, सर्वेऽप्यमी जनपदाः सुखदा भृशं नः । निष्पन्नशालिवनशालिनि जीवलोके, यद्वा शुकः क्वचन तिष्ठति कि क्षुधातः ? |॥३२॥ मुक्त्यथिनां किमपरैरभियोगयोगै-- स्त्वत्पादभक्तिकरणे यदि शक्तिरस्ति । चेत् शालयः समूदपत्सत पङ्किलैस्तत्, कार्य कियज्जलधरैजलभारनम्रः ॥३३॥ २°ज्ञानं यथा त्वयि विभाति कृतावकाशं, साऽऽलोकलोककलनास्वनिभं नभस्वत् । क्वाऽन्येषु तस्य कणिकाऽप्यथवाऽऽप्यते किं, __ कल्पद्रुमः क्वचन मारवमेदनीषु ॥३४॥ दैवी कलां त्वयि यथाऽर्हति सम्यगास्ते, नैवं तथा हरिहरादिषु नायकेषु । यत्सौरभं मलयचन्दनपादपानां, भाव्यं क्व तेन मरुमण्डलशाल्मलीषु ? ॥३५॥ श्रीसर्ववेदिनि जिन ! त्वयि यादृशी श्रीः, क्वैषा कियन्मतिधरेषु सुरान्तरेषु । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy