SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ७४ साधारणजिनस्तवः यत्तुल्यतामपि तयोः प्रतिपादयन्ति, - तेभ्यो नमः शुचिविचारचतुर्मुखेभ्यः ? ॥६॥ देव ! त्वदीयचरितं हृदुपैति याव निश्शेषनिजितजगस्त्रितयोपमानम् । तावन्मतिर्मम सतीरसतीव्रतेव, . स्तुत्याऽन्तरस्य नहि संमुखमीक्षतेऽपि ॥ ७ ॥ क्षीराब्धिगर्भसलिलैर्घटितानि नूनं, वाक्यानि ते विमलतातिशयाञ्चितानि । बिम्बं कलङ्कमलिनं क्व निशाकरस्य ?, तेषां तु यातु परिणामि-निदानतायाम् ॥ ८॥ नित्यं निशासु शशिबिम्बमुदीय दीपं, दीपं यथेष्टमधिकाधिकदीप्ति रूपैः । चेन्नति ते मुखतुलां त्रपयोचितं तद्, यद्वासरे भवति पाण्डुपलाशकल्पम् ।।९।। "सम्पूर्णमण्डलशशाङ्ककलाकलाप मुन्मुद्य किञ्चिदपसार्य च पङ्कमाङ्कम् । चेत्तं पृथक् क्वचन सञ्चिनुते विरञ्चि __ स्तत् त्वगिरो निरुपमत्वमदं पिदध्यात् ॥१०॥ त्वं देशमेतमधुना प्रपुनासि पादैः, शुभ्रा गुणास्त्रिभुवनं तव लङघयन्ति । तन्नूनमेतदनृतं गुणिनं विहाय, यन्नो गुणाः क्वचन केवलतां भजन्ति ॥११॥ क्षान्तिर्दृढा तव गिरो मृदुलाश्च कीत्ति __ लॊकम्पृणाऽथ परतापकरः प्रतापः । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy