SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स्तोत्री त्वादेशः । एवमपि ज्ञेयम् ॥ २॥ प्रासादस्थापितस्वर्ण-रूप्यादिमययुष्मया । निर्मीयन्ते नरेणोच्चैः, स्ववशाः सर्वसम्पदः॥३॥ ___अव०-प्रासादे स्थापिताः स्वर्णरूप्यादिमया यूयं येन, स तेन ॥३॥ अङ्गाद्यर्चाराधिततुभ्यं कः श्लाघते न देहभृते ?। आभरणमालभारीकृतयुष्मद् भाग्यवान् कोऽन्यः ॥४॥ अव०-अङ्गा०-आदिशद्वादग्रभावी, तद्विषया अर्चा, मयूरव्यंसकत्वादित्वात् समासे विषयशब्दे लोपे तया. राधेरपपठितस्य चुरादेः सद्भावात्, आराधिता यूयं येन स तस्मै, लाधिक्रियाभिप्रेयत्वात् सम्प्रदाने चतुर्थी । तुभ्यं मह्यं ङया' २।१।१४। इतिसामान्योक्तेबहुत्वेपि तुभ्यमादेशः । एवं तवादेशेपि वाच्यं । आभरणमालां विभृथेति आभरणमालभारिणः 'मालेपीकेष्टकस्यान्तेपि भारतुलचिते' २।४।१०२॥ इति इस्वः । अते ते कृताः च्यौ 'व्यञ्जनस्यान्त ई' ७२।१२९। इति ईकारं बाधित्वा 'नोऽपदस्य ' ७४६१॥ इति नलोपे 'दीर्घश्चि०' ४३।१०८॥ इति दीर्घत्वे आभरणमालभारीकृता यूयं येन स तस्मात्, 'उसेश्वादि' त्यादि प्राग्वत् 'प्रभृत्यन्यार्थ०' २।२।७५। इति पञ्चमी ॥४॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy