SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ त्रिदश-तरङ्गिणी २१ सेवागतामरनरावलिपापवैरि-प्रध्वंसनप्रगुणिता इव यस्य भान्ति । आग्नेयशस्त्रनिवहास्तनुकान्तिरूपा:, पायाद् भवात् स भवतः प्रभुवासुपूज्य: ।।१४।। को नार्या जनितो विनाऽपि हि पति ? कस्मिन् भवेच्चन्दनं ? का मान्या गृहिणां स्फुटा यदभिधा प्रश्नादिवर्णैर्भवेत् । कीदृग् ध्यानतपःश्रुतैजिनमतैः प्राणी भवत्यञ्जसेत्येवं च प्रतनोतु वः स भगवान्नामानुरूपां धियम् (वि+म+ल: विमल:) ।।१५।। नेत्रश्रीर्जलराशिगूढविलसत्काम्यार्थ रत्नोच्चयान्, योऽभूद्दर्शयितुं पुराऽत्र विबुधवातस्य धत्ते च यः । पृथ्वी कीर्तितति तथा सदमृतप्राप्तिर्यदाज्ञावशा, पायाद् भोगिकुलोद्भवः शिवसदः श्रीमाननन्तप्रभुः ॥१६॥ मङ्गलं प्रवितनोतु भाविना, धर्मतीर्थपतिरामरद्रुमः । यत्प्रसादमहिमाणुम्भितं, चक्रिशक्रशिवशर्मसम्पदः ॥१७॥ चिरस्य पीतेन्दुसुधाऽनुवादं, संवीक्षितुं यद्वचनामृतेन । सुधारुचेर्लक्ष्ममृगोऽङ्कदम्भाद्यं सेवते शान्ति रयं शिवाय ॥१८॥ इतियुगप्रधा० ह्रदे मध्यमजिनाष्टकस्तवाशीर्वादनामाऽष्टमस्तरङ्गः। नवमस्तरङ्गः । यः सूरजातोऽपि हि जीवमैत्र्यभाग, __ मेषाश्रितोऽप्याश्रयते महोच्चताम् । श्रीनन्दनश्चाप्यकरोद् भवक्षयं,स कुन्थुनाथः पृथुसम्पदे सताम् ॥१९॥ ध्वस्ताज्ञानभरः स्मरज्वरहरः सर्वेष्टसौख्याकरः, क्षीणाशेषदरः क्रमानतनरप्रेयःशिवश्रीकरः । ब्रह्माद्वैतधरः समाश्रितपरत्रैलोक्यरक्षादरः, कुर्यात श्रीमदरः सतां गुरुतरश्रेयांसि तीर्थङ्करः ॥२०॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy