SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे-- शङ्खमुखः शङ्कुमुखः, ग्राहे तु तन्तु-तन्तुणौ ॥३६९|| तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् । कुटीरश्च चन्द्राश्रयराशावऽपि च, कच्छपी ॥३७०॥ दुलिर्दुली दुडिर्भके प्लवगः सप्लवंगमः । प्लवः सालूच सालूरो दन्त्यतालव्यपूर्वकः ॥ ३७१ ॥ शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते । वैर्षाव्युद्भिदि चोद्भिज्जमुद्भिदं चोद्भिजं तथा ॥३७२॥ इति श्रीवादीन्द्रश्रीसाधुकीय॒पाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदनाममालायां तिर्यकाण्डश्चतुर्थः ।। अहम् अथ पञ्चमः काण्डः । नैरयिके नारकको नारकीयश्च नारकः । प्रेतः परेतः आजूः स्यूदन्ता रेफान्तिमाऽपि च ॥१॥ आजूराजूरावाजूर इत्येवं रूपसंगतिः निर्वतनकर्मकृतौ भद्राख्ये करणे तथा ॥ २ ॥ निरये दुर्गतिः स्त्रीब्रोनरको नारकान्वितः । पातालेऽधोऽव्ययं चाधः, भुवनं विवरे सुषिः ॥ ३ ॥ १ रेफान्तस्य 'आजूर' इति अब्दस्य प्रथमाविभक्तो रूपाणीति । २ अत्र इयन्तो वीवी-शब्दो भेकीवाचकः । "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy