SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः । चिल्ले आतापिरातापी आतायी नान्तकावुभौ । कामायौ तु गृध्र-गृत्सौ दाक्षाय्यच दक्षाय्यवत्॥३५९॥ रामाश्रिते जटायुर्नोदन्तकः सान्तिमोऽपि च । कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता ॥ ३६० ॥ गोकिराटिका गोराटी स्यात् चर्मचटका पुनः । जतुका च जतूका च, परोष्ठ्यां वल्गुली स्मृता ॥ ३६१ ॥ वल्गुलिका, कर्करटौ करेटुः कर्कराटुकः । करटुः कर्करेटोऽथाटिराडिश्च शरातिवत् ॥ ३६२ ॥ आतिः शरारिः शलालिः कृकण क्रकरावुभौ । कपिञ्जले, भास-भाषैौ शकुम्भे, रक्तलोचने ॥ ३६३ ॥ पारापतः पारावतः पारपतः कपोतवत् । कपोटः, गुन्द्राले जीवञ्जीवः स्याद् जीवजीववत् ॥ ३६४॥ व्याघ्राटे तु भरद्वाजो भारद्वाजश्र, तित्तिरः । तित्तिरिः खरकोणे हौ, मरुले कारण्ड इष्यते ॥ ३६५ || कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा । वेसारिणो विसारच शक्लीव शकली मता ॥ ३६६ ॥ शम्बरो दन्त्यतालव्यो वादालश्च वदालवत् । सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि ॥ ३६७ ॥ शफरे शफरी प्रोष्ठः प्रोष्ठी ठान्तौ चिलीचिमिः । चिलिचीमश्चिलिचिमः, नलमीनेऽथ मत्स्यभित् ॥ ३६८ ॥ शालः सालश्च, नक्रे तु कुम्भी कुम्भीर इत्यपि । पुंलिङ्गः, उकारान्तश्चेत्यर्थः । "Aho Shrut Gyanam" ८३
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy