SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे अजमोदायां तु मयूरो भवेद् हस्तमयूरकः । यवानिका यवानी च यमानिका यमान्यपि ॥२१८॥ झिट्यां सैरेयच सैरीयकः सहचरान्वितः । सहाचरो नीलझीष्ट्यां वाणो वाणाथ पीतिका ॥२१९॥ ७० कुरुवकः कुरुण्टकः सहाचरः सहाच्चरः । सहचरी शतपुष्पा सितच्छत्राऽतिच्छत्रका ॥२२०॥ मिशिर्मिशी मिसि - मिस्यौ मधुरा तु मधूरिका । सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः ॥२२२॥ मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर इत्यपि । शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका ॥२२२॥ काष्ठिकापि बलायां स्याद् नागबलायां तु हे पुनः । गङ्गेष्टिका गङ्गेरुका महाबलायां संगता ॥ २२३ ॥ सहदेवी देवसहा हिङ्गुपत्र्यां तु कारवी । करवी कबरी तद्वत् कवरी बाष्पिकायुता ॥ २२४ ॥ बाष्पीका पृथु पृथ्व्यौ च स्याद् मयूरशिखोऽप्यसौ । मयूरो लोचतः ख्यातो मस्तको मर्कटो ऽपिच ॥ २२५ ॥ श्यामलतायां गोपे च गोपी गोपालिका तथा । गोपवली शारिवावद् भवेदुत्पलशारिवा ॥ २२६ ॥ चोराख्यगन्धद्रव्ये तु गणवद् गणहासकः । शुषिरायां नटी - नल्यौ ग्रन्थिपणेऽशुकं मतम् || २२७ || शुक है बर्हिःपुष्पं पुष्पं स्पृकौषधौ पुनः । कोटीवर्षा कोटिवर्षा कोटिर्माला मरुद्युता ॥ २२८॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy