SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ द्वितीयः काण्डः । १३ यङ्लुगन्ते चर्करीतं चर्करितं, कलिन्दिका ॥ १०३ ॥ कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे । निर्घुण्टुश्व, जनश्रुतौ वदन्ती किंवदन्त्यपि ॥ १०४ ॥ किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्त्तिके | अभिधायां नामधेयं नामाख्याऽभिख्ययाऽऽह्वयः ॥ १०५॥ आह्रा, हूतौ तु हक्कार - कङ्कारौ, शपथे शपः । शपनं, प्रियबाहुल्ये चटु चाटु, यथास्थिते ॥ १०६ ॥ तथ्यं यथातथं सम्यक् समीचीनं च, रूक्षके । निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने ॥ १०७ ॥ निष्वर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् । गर्हणा गर्हणं ग, रतशापे तु क्षारणा ॥ १०८ ॥ आक्षारणा क्षारणं च क्षरणा, मङ्गलार्थने । आशीराशषया चोभे उशत्यशुभवाचि तु ॥ १०९ ॥ रुशती रुपती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः । आज्ञायां स्याद् निरोनिभ्यो देशोऽथाङ्गीकृतौ पुनः ॥ ११॥ संध्या स्यात् संघया साकं संप्रत्याङ्ग्भ्यः परः श्रवः । वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् ॥ १११ ॥ नाट्यं नटनमङ्गविक्षेपेऽङ्गाद् हारि-हारकौ । आतोये वाद्यं वादित्रं तूरं तूर्य च, बलकी ॥ ११२ ॥ तन्त्रीस्तन्त्रिश्च गन्धर्वे त्र्युकारस्तुम्बुरुः स्मृतः । १ निर्वादः, परिवादः, अपवादश्चेत्यर्थः । २ निर्देशः, आदेशः, निदेशश्वेत्यर्थः । ३ संश्रवः, प्रतिश्रवः, आश्रवश्चेत्यर्थः । "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy