________________
शब्दरत्नाकरेधन्वी सुधन्वा शतकः शतादाऽऽनन्द-वीरको ॥ ९३ ॥ श्रीवत्साङ्कच श्रीवत्सस्तदरौ मेन्द-मैन्दकौ । कालीयः कालियश्चास्य गदा कौमोदकी स्मृता ॥९४॥ कौपोदकी कौवोदकी, कृष्णमातरि देवकी। दैवकी, बलभद्रे तु भद्राङ्गो बलिना बलः॥ ९५ ॥ पद्मायामीरी आ या च कमला कमलीन्दिरा । इन्दिः श्री-लक्ष्म्यौ विब्यन्तौ, येरौ शम्बर-संबरौ ॥१६॥ शूर्पकवादितालव्यः, ऋष्याङ्कः कामनन्दने । मूईन्याद्यान्तःस्थिकभागूषोषा बाणपुत्रिका ॥ ९७ ॥ शम्ब-शाम्बो जम्बुवत्याः पुत्रे, ताये सुपर्णकः। सौपर्णेयो गरुडश्च गरुलो गरुटस्तथा ॥ ९८ ॥ सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः । मुनीन्द्रः, सप्तमे बुद्ध शाक्यसिंहः सशाक्यकः ॥९९|| दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा-गिरौ । वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा॥१०॥ व्याहारो वचो वचनं, कारके कर्म-कार्मणे । ज्ञाताधर्मकथायां स्यात् तकारो दीर्घसंयुतः ॥ १०१ ॥ द्वादशाङ्गे दृष्टिवादो दृष्टिपातोऽपि कथ्यते । प्रत्याख्यानप्रवादे तु प्रत्याख्यातं च, ज्योतिषि ॥१०२॥ ज्योतिष ज्यौतिषं, भाष्ये चूर्णि-चूयॉं समे मते ।
३ गोविन्दशत्रौ। २ गोविन्दस्य । ३ अनुक्रमं विप् , ईश्च प्रत्ययोऽन्ते ययोस्तौ । ४ इः कामस्तस्यारियरिस्तस्मिन् । ५ ऋष्याविशेषणम् । ६ षष्ठा
रूपस्य ग्रन्थविशेषस्य नाम ।
"Aho Shrut Gyanam"